वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 115, कुल 355 में से
संदर्भ में पढ़ें९४ वेणीसंहार नाटकं
मंशं अ आणीदम् । ता पिवाहि णं । ( अरे रुधिरप्रिय, इदं खलु मया तव
कारणात्प्रत्यग्रहृतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नवरुधिरमग्रमासं
चानीतम् । तत्पिवैतत् । )
राक्षसः—(सपरितोषम् ।) वशागन्धे, शुट्ठु शोहणं तुए किदम् । वलि-
अह्यि पिवाशिए । ता उवणेहि । ( वसागन्धे, सुष्ठु शोभनं त्वया कृतम् । बलव
दस्मि पिपासितः । तदुपनेय । )
राक्षसी—अले लुहिलप्पिआ, एदिशे वि णाम हदणलगअतुलङ्गमशोणि-
अवशाशमुद्ददुशशञ्चले शमले पडिब्भमन्ते तुमं पिवाशिएशित्ति अच्चलि-
अम् । ( अरे रुधिरप्रिय, ईदृशेऽपि नाम हतनरगजतुरङ्गमशोणितवसासमुद्रदुःसञ्चरे
समरे परिभ्रमंस्त्वं पिपासितोऽसीत्याश्चर्यम् । )
राक्षसः—( सक्रोधम् ) अइ शुत्तियदे, णं पुत्तशोअशन्तत्तहिअअं शामिणीं
प्रत्यग्रहृतस्य = अभिनवव्यापादितस्य, कस्यापि, राजर्षेः = ऋषिसदृशनृपस्य,
प्रभूतवसास्नेहचिक्कणम् = प्रचुरमेदःस्नेहमसृणम् , 'चिक्कणं मसृणं , स्निग्धम्', इत्य-
मरः । कोष्णम् = ईषदुष्णम्, नवरुधिरम्, अग्रमांसम् = उत्तममांसम्, च आनीतं
तव कारणादित्यन्वयः ।
सुष्ठु = मनोहरम्, शोभनम् = साधु, त्वया कृतमित्यन्वयः । बलवत् = अतिश-
यितम्, पिपासितः = पानेच्छायुक्तः, अस्मि इत्यन्वयः । बलवदिति क्रियाविशेषणम् ।
हतनरगजतुरङ्गमवसासमुद्रदुःसञ्चरे = मृतमनुष्यहस्त्यश्वानां शोणितवसे एव
समुद्रः अत एव दुःसञ्चरः दुःखेन सञ्चरितुं योग्यः तस्मिन् , समरे = सङ्ग्रामे, परि-
भ्रमन्, त्वं पिपासितः = पानेच्छायुक्तः, असीति, आश्चर्यम् = अद्भुतम् । एतादृशे
सङ्ग्रामे सति न तव पिपासा युक्तेति भावः ।
राजर्षि के अङ्गों से निःसृत अत्यधिक वसा, के स्नेह से चिकना और गरम ताजा रक्त और
स्वादिष्ट मांस लाई हूँ अतः इसे पी लो ।
राक्षस—( सन्तुष्ट होकर ) साधु, साधु वसागन्धे, तूने अच्छा किया, जो गरम गरम रक्त
लाई । मैं अधिक तृषातं हो गया हूँ अतः इसे ला इधर दे ।
राक्षसी—अये रुधिरप्रिय, मृत शूरवीरों, हाथी, घोड़ों के रक्त, मांस तथा चर्बी के समुद्र
में घूमना-फिरना कठिन हो रहा है । ऐसी समरभूमि के बीच विचरने हुए तृषातं हो—
महान् आश्चर्य की बात है ।
राक्षस—( क्रोधपूर्वक ) अरी वसागन्धे, मैं पुत्र घटोत्कच के वध के कारण शोकाग्नि से