सामग्री पर जाएँ
सर्वकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 105, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 105

८४ ; वेणीसंहारं नाटकं
किम्त्याहितम् । अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य ।
माता — जाद, कुदा कुसलम् । ( जात, कुतः कुशलम् । )
राजा—कथमिव ।
माता—( साशङ्कम् । ) अज्ज क्खु पुत्तवहामरिसिदेण गण्डीविणा
अगत्थम्मिदे दिवहणाहे तस्स वहो पडिण्णादो । ( अद्य खलु पुत्रवधामर्षितेन
गाण्डीविनाऽनस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः । )
राजा—( सस्मितम् । ) इदं तदस्रकारणमम्बाया दुःशलायाश्च । पुत्रशो-
कादुत्तप्तस्य किरीटिनः प्रलपितैरेवमवस्था । अहो मुग्धत्वमबलानां नाम ।
अम्ब, कृतं विषादेन । वत्से दुःशले, अलमश्रुपातेन । कुतश्चायं तस्य धन-
ञ्जयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्ति-
भीतिः । समराङ्गणेषु = सङ्ग्रामभूमिषु, अप्रतिरथस्य = अविद्यमानप्रतिपक्षस्यन्दनस्य,
जयद्रथस्य = सिन्धुराजस्य, कुशलम्, अपि=किम्, अपिशब्दः प्रश्ने ।
जातेति—पुत्रस्य पुत्रसदृशस्य च सम्बोधनार्थं जात इति प्रयुज्यते ।
पुत्रवधामर्षितेन = सुतवधक्रुद्धेन, गाण्डीविना = अर्जुनेन, अनस्तमिते = अस्तम-
प्राप्ते, दिवसनाथे = सूर्ये, तस्य=जयद्रथस्य, वधः, प्रतिज्ञातः ।
सस्मितम् = ईषद्धासेन सहितम्, अम्बायाः = जयद्रथमातुः, दुःशलायाः =
स्वस्वसुः, च. अस्रकारणम् = अश्रुहेतुः, 'रोदनं चास्रमश्रु च' इत्यमरः । इदं तत् ।
पुत्र, शोकात्, उत्तप्तस्य=दुःखितस्य, किरीटिनः=अर्जुनस्य, प्रलपितैः=प्रलापैः, भावे
क्तप्रत्ययः । एवम्, अवस्था । अबलानाम् = स्त्रीणाम्, मुग्धत्वम् = मोहः, 'अहो इति
विस्मये । अश्रुपातेन = रोदनेन, अलम् = व्यर्थम्, 'वासरूपन्यायेन' क्त्वाऽभावपक्षे
असंयोगे सत्यपि ल्युट् प्रत्ययः । दुर्योधनबाहुपरिघरक्षितस्य = दुर्योधनस्य बाहु-
विघ्न तो नहीं, रणस्थली के बीच अद्वितीय वीर जयद्रथ का कुशल तो है न !
माता—वत्स, कुशल कहाँ ?
राजा—किस प्रकार ?
माता—आज पुत्रवध से क्रुद्ध होकर गाण्डीवधारी अर्जुनने सूर्यास्त से पहले उसके वध
की प्रतिज्ञा की है ।
राजा—( मुस्कान के साथ मन ही मन ) यही माता और दुःशला के अश्रुपात का
कारण है । पुत्र-शोक से विह्वल अर्जुन के प्रलापों से यह अवस्था है । स्त्रियां कैसी भोली-
भाली होती हैं ! ( प्रकट ) माता, शोक करने की कोई आवश्यकता नहीं । चिरंजीविनि
दुःशले ! पर्याप्त अश्रुपात हो चुका । इस अर्जुन में कहाँ सामर्थ्य है कि वह दुर्योधन की