वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 94, कुल 145 में से
संदर्भ में पढ़ें( ९४ ) वेदान्तसार ।
तस्माद्यथा सोऽयं देवदत्त इति वाक्यं तदर्थो वा
तत्कालैतत्कालविशिष्टदेवदत्तलक्षणस्य वाच्यार्थ
स्यांशविरोधात् । विरुद्धतत्कालैतत्कालविशिष्ट-
त्वांशंपरित्यज्याविरुद्धं देवदत्तांशमात्रं लक्षयति ।
तथातत्त्वमसीति वाक्यं तदर्थो वा परोक्षत्वा-
परोक्षत्वादिविशिष्टचैतन्यैकत्वलक्षणस्य वाच्या-
र्थस्यांशविरोधाद्विरुद्धपरोक्षत्वापरोक्षत्वा विशि-
ष्टां दिशं परित्यज्याविरुद्धमखण्डचैतन्यमात्रं-
लक्षयति ॥ ८४ ॥
(सं०टी०) तृतीयपक्ष एव चांगीकर्तव्य इत्युपसंहरति ।
तस्मादिति । यस्मात्तत्त्वमस्यादिवाक्ये जहल्लक्षणाऽजह-
ल्लक्षणयोरसंभवः तस्माज्जहदजहल्लक्षणया विरुद्धांशं परित्य-
ज्याविरुद्धाखंडचैतन्यमात्रं लक्षयतीति योजना । तत्र दृष्टांत-
माह । यथेति । यथा सोयं देवदत्त इति वाक्ये प्रागुक्तजहल्ल-
क्षणाजहल्लक्षणयोरसंभवेन तदर्थस्य तत्कालतद्देशविशिष्टस्य
इदमर्थस्यैतत्कालैतद्देशविशिष्टदेवदत्तलक्षणवाक्यार्थस्यैकस्मि
न्नंशे तत्काले तत्कालवैशिष्ट्यभागे विरोधदर्शनात्तत्परित्यागे-
नाविरुद्धंदेवदत्तपिंडमात्रं लक्षयतीत्यर्थे न मानांतरविरोध इ-
त्युक्तन्यायेनेत्यर्थः । उक्तमर्थं दाष्टांतिके योजयति । तथेति ।
तत्त्वमसीत्यादिवाक्यस्यापि परोक्षत्वापरोक्षत्वादिविशिष्टचैत
न्यैकत्वलक्षणमुख्यार्थप्रतिपादकत्वासंभवाज्जहदजहल्लक्षणया