सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 5, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 5

संस्कृतटीका-भाषाटीकासमेत । (५)
शास्त्रविषययोः प्रतिपाद्यप्रतिपादकभावः संबंधः । तत्कामोऽ-
धिकारीत्यनुबंधचतुष्टयमर्थादुक्तं भवति ॥ १ ॥
( भा०टी० ) जो वाणी और मनसे पर और संसारका
आधारस्वरूप पूर्णब्रह्म सच्चिदानन्द है उसको अपने इच्छित
कार्यकी सिद्धिके अर्थ आश्रय करताहूँ ॥ १ ॥
अर्थतोऽप्यद्वयानन्दमतीतद्वैतभानतः ॥
गुरून्नाराध्य वेदान्तसारं वक्ष्ये यथामति ॥२॥
( सं०टी० ) किंच “यस्य देवे परा भक्तिर्यथा देवे तथा गु-
रौ। तस्यैते कथिता ह्यर्थाः प्रकाशंते महात्मनः॥” इत्यादिश्रुत्या
गुरुनमस्कारस्यापि शास्त्रांगत्वप्रतिपादनात्तन्नमस्कारोपि अ-
वश्यं पृथक्त्वेन कार्य इति तन्नतिपूर्वकमभिधेयग्रन्थं प्रतिजा-
नीते । अर्थतोपीति । अपिशब्देन न केवलं शब्दतः डि-
त्थकपित्थादिवत्संज्ञामात्रं व्यवस्थितमपि तु अर्थतः शब्द-
तश्चेति अद्वयानंदान् गुरून्नाराध्य वेदांतसारं यथामति वक्ष्य
इत्यन्वयः। अद्वयश्चासावानंदश्चाद्वयानंदस्तांनद्वयानंदान् । अत्र
हेतुमाह । अतीतद्वैतभानत इति । अतीतं गतं द्वैतभानं यतः त-
स्मादतीतद्वैतभानतः निरस्तसमस्तभेदज्ञानत्वादित्यर्थः । ता-
न्गुरून्नाराध्य कायवाङ्मनोभिर्नमस्कारगोचरीकृत्य वेदांतसारं
वेदांतानामुपनिषद्वाक्यजातानां मध्ये यत्सारं सिद्धांत रहस्यं
यस्मिन् ज्ञाते पुनर्ज्ञातव्यं नावशिष्यते तं वेदान्तसारं यथामति
१ आदरार्थे बहुवचनमिति शिष्टोपदेशाद्गुरावादरात्तानिति बहुवच-
ननिर्देशोऽवावगन्तव्यः ।