वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 4, कुल 145 में से
संदर्भ में पढ़ें( ४ ) वेदान्तसार ।
न मूलाज्ञाननिवृत्तिपरमानंदावाप्तिसिद्धये प्रकरणमारभमाणःत-
त्समाप्तिप्रचयगमनादिफलकस्य शिष्टाचारपरिप्राप्तेष्टदेवतानम-
स्कारलक्षणमंगलाचरणस्यावश्यकर्तव्यतांप्रदर्शयँल्लक्षणयानुबं-
धचतुष्टयं निरूपयन्परमात्मानंनमस्करुतेऽखंडमित्यादिना ॥ अ
खंडमिति ॥ अभीष्टस्य निःश्रेयसःसिद्धये प्राप्यर्थमात्माश्रये ए-
कत्वेन प्रतिपद्य इत्यर्थः। नन्वविषयस्यात्मनः कथं प्रतिपत्तिरि-
त्याशंक्याह । अखिलाधारमिति । अखिलस्य चराचरात्मक-
प्रपंचस्य विवर्ताधिष्ठानत्वेन कारणत्वाक्रांतं ब्रह्मैव प्रतिपद्ये-
त न तु शुद्धमित्यर्थः । नन्वेवं च सति प्रतिपत्तिविषयत्वेन दृ-
श्यत्वापत्तिरित्याशंक्याह । अवाङ्मनसगोचरमिति। “यतोवा-
चो निवर्तंते” इत्यादिश्रुतिभिरविषयत्वप्रतिपादनात्प्रतिपत्तिवि-
षयत्वं कारणत्वोपलक्षितं ब्रह्मविषयत्वेनौपचारिकमिति भा-
वः । ननु एवमपि ब्रह्मणः कारणत्वे मृत्पिंडवदनित्यत्वाशंका-
मपहरन्नाह । सदिति। नाशाभावोपलक्षितस्वरूपम् “सदेव सौम्ये-
दमग्र आसीत्” इत्यादिश्रुतेः । ननु तथापि जडत्वापत्तिमाशं-
क्याह । चिदिति । स्वप्रकाशचैतन्यस्वरूपमिति यावत् ।
ननु तथाप्यपुरुषार्थत्वात्किमित्याश्रयणीयमित्यत आह । आ-
नंदमिति । परमानंदरूपमित्यर्थः । ननु 'भक्षितेऽपि लशुने न
शांतो व्याधिः'इति न्यायेन प्रपंचस्याधिष्ठानव्यतिरिक्ततया
प्रतीयमानत्वात्कथमद्वैतसिद्धिरित्याशंकां तृणीकुर्वन्नाह ।
अखंडमिति । सजातीयविजातीयस्वगतभेदशून्यमित्यर्थः ।
अत्र सच्चिदानंदमिति प्रयोजनम् । अखंडमिति विषयः ।