वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 47, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( ४७ )
मिचजाय वह कूर्मवायु कहाता है । जिस वायुसे क्षुधा लगै
उसको कृकल कहते हैं । जम्भा करानेवाले वायुको देवदत्त
कहते हैं । जिस वायुसे पुष्टि होती है उसको धनञ्जय कहते
हैं । परंतु वेदान्तमतके आचार्य केवल प्राणादि पाँच वायुही
मानते हैं और अलग कोई वायु नहीं मानते हैं वह प्राणादि
पञ्चवायुमें नागादि वायुका अन्तर्भाव मानते हैं । यह प्रा-
णादि पञ्च वायु मिलेहुए आकाशादि पञ्चभूतके राजसअं-
शसे उत्पन्न होते हैं ॥ ४६ ॥
इदं प्राणादिपंचकं कर्मेन्द्रियसहितं सत् प्राणमय-
कोशो भवति। अस्य क्रियात्मकत्वेन रजोंशका-
र्य्यत्वम्। एतेषु कोषेषुमध्ये विज्ञानमयो ज्ञानश-
क्तिमान् कर्तृरूपः। मनोमयः-इच्छाशक्तिमान् क-
रणरूपः।प्राणमयःक्रियाशक्तिमान् कार्य्यरूपः।यो-
ग्यत्वादेवमेतेषां विभागः-इति वर्णयन्ति। एतत्-
कोशत्रयं मिलितं सत् सूक्ष्मशरीरमित्युच्यते॥४७॥
(सं०टी०) एतेषां प्राणादीनां प्राणप्रचुरत्वात्प्राणमय-
त्वं आत्माच्छादकत्वात्कोशत्वं च भवतीत्याह । इदमिति ।
प्राणादीनां रजःप्रधानभूतकार्य्यत्वे निमित्तमाह। अस्येति। प्रा-
णादीनां क्रियात्मकत्वाद्रजःकार्य्यमित्यर्थः।एतेषु पंचसु कोशेषु
मध्ये विज्ञानमयमनोमयप्राणमयकोशानां क्रमेण ज्ञानेच्छाक्रि
याशक्तिभेदेन कर्तृकरणक्रियारूपत्वं दर्शयति।एतेष्विति।तत्र
हेतुमाह । योग्यत्वादिति । इदमेव कोशत्रयं सूक्ष्मशरीरमिति
व्यवह्रियत इत्याह । एतदिति ॥ ४७ ॥