वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 45, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( ४५ )
वायवः प्राणापानव्यानोदानसमानाः । प्राणो नाम
प्राग्गमनवान् नासाग्रस्थानवर्त्ती । अपानो नाम
अवाग्गमनवान् पाय्वादिस्थानवर्त्ती। व्यानो नाम
विष्वग्गमनवानखिलशरीरवर्त्ती । उदानः कण्ठ-
स्थानीयः ऊर्द्धगमनवानुत्क्रमणवायुः।समान शरी-
रमध्यगताशितपीतान्नादिसमीकरणकरः । समी-
करणन्तु-परिपाककरणं-रसरुधिरशुक्रपुरीषादि-
करणम् ॥ ४५ ॥
( सं०टी० ) वायूनुद्दिशति । वायव इति । यथोद्देशं प्रा-
णमाह । प्राणोनामेति । ऊर्द्धगमनशीलो नासाग्रस्थायी वा-
युः प्राण इत्यर्थः । अपानस्य लक्षणमाह।अपानो नामेति । अ-
धोगमनशीलःपाय्वादिस्थायी वायुरपान इत्यर्थः।व्यानस्य ल-
क्षणमाह । व्यानो नामेति । सर्वनाडीगमनशीलोखिलशरीर-
स्थायी वायुर्व्यान इत्यर्थः । उदानस्य लक्षणमाह । उदानोना-
मेति ऊर्ध्वमुत्क्रमणशीलःकंठस्थायी वायुरुदान इत्यर्थः । स-
मानस्य लक्षणमाह । समानोनामेति । शरीरमध्यगतोन्नरसा-
दिनेता वायुः समान इत्यर्थः । प्राणादीनां वायुत्वेन रूपेणै-
कत्वेपि क्रियाभेदेन भेद इत्यर्थः ॥ ४५ ॥
( भा०टी० ) प्राण,अपान, व्यान, उदान, और समान
इनको पञ्च वायु कहते हैं । ऊपरको चलनेवाला नासिकाके
अग्रभागमें रहनेवाले वायुका नाम प्राणवायु है । नीचेको च-
लनेवाला गुदास्थानमें रहनेवाले वायुको अपानवायु कहते हैं।