वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 3, कुल 145 में से
संदर्भ में पढ़ेंश्रीः ।
श्रीगोपीवल्लभेन जितम् ।
वेदांतसार ।
संस्कृतटीका और भाषाटीकासमेत ।
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ॥
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥१॥
(सं०टी०) रामानन्दं गुरुं नत्वा परमानन्दमद्वयम्।वक्ष्ये
वेदान्तसारस्य टीकां नाम्ना सुबोधिनीम् ॥ १ ॥ इह खलु कश्चि-
न्महापुरुषो नित्याध्ययनविध्यधीतसकलवेदराशीनाञ्चिन्मात्रा
श्रयत्वेन तद्रूपाद्वयानन्दविषयानाद्यनिर्वचनीयभावस्वरूपाज्ञा-
नविलसितानंतभवानुष्ठितकाम्यनिषिद्धवर्जितनित्यनैमित्तिक-
प्रायश्चित्तोपासनाकर्मभिः सम्यक्प्रपन्नेश्वराणामिष्टिकाचूर्णादि
संघर्षितादर्शतलवदतिनिर्मलाशयानां नलिनीदलगतजलबिन्दु
वद्धिरण्यगर्भादिस्तंबपर्यन्तजीवजातं स्वात्मवन्मृत्योरास्यान्त-
र्गतं क्षणभंगुरं तापत्रयाग्निदंदह्यमानमहर्निशमात्मन्यनुपश्यताम
तिविवेकिनां अत एवैहिकस्रक्चन्दनादिविषयभोगेभ्यः आमु-
ष्मिकहिरण्यगर्भाद्यमृतभोगेभ्यश्च वाताशन इवातिनिर्विण्णमा-
नसानां शमादिसाधनसंपन्नानामापाततोधिगताखिलवेदार्थत्वा-
देहाद्यहंकारपर्यन्तं जडपदार्थतद्विलक्षणस्वप्रकाशस्वरूपप्रत्य-
गात्मनि ब्रह्मानंदत्वे संशयापन्नानां तज्जिज्ञासूनामल्पश्रवणे-