वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 39, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( ३९ )
क्तत्वं स्वोपाधिप्रधानतयोपादानत्वं च भवतीत्यर्थः। इदानीं विक्षे-
पशक्तिकृत्यमाह। तम इति। आकाशादेर्जडत्वात्तमोगुणप्रधा-
नविक्षेपशक्तियुक्ताज्ञानावच्छिन्नचैतन्यस्यै वाकाशादिप्रपंचज-
नकत्वमिति भावः। अस्मिन्नर्थे श्रुतिं प्रमाणयति। "तस्माद्वा एत-
स्मादात्मनआकाशः संभूतः" इति। एतेनापिसांख्यनैयायिकपक्षौ
निरस्तौ। शक्तेरज्ञानस्य शक्तिमत्परतंत्रत्वात्स्वतन्त्रस्य तस्य
केवलस्य जडस्याज्ञानस्य जगत्कारणत्वानुपपत्तेः। "ईक्षतेर्ना-
शब्दम्। रचनानुपपत्तेश्चनानुमानम्" इत्यादिन्यायनिरस्तत्वाच्च।
परमाणोरप्युक्तदोषग्रासत्रासानपायात् । अभिन्ननिमित्तो-
पादानप्रतिपादकश्रुतिस्मृतिन्यायविरोधाच्च । "यतो वा इमानि
भूतानि जायंते येन जातानि जीवंति यत्प्रयत्याधिसंविशंति। सदेव
सौम्येदमग्र आसीत्। एतस्माज्जायते प्राणो मनः सर्वेंद्रियाणि च ।
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। बीजं मां सर्वभूतानाम्"
इत्यादिश्रुतिस्मृतिभिरीश्वरस्यैवजगत्कारणत्वप्रतिपादनात् ३९
( भा०टी० ) तमोगुणप्रधानविक्षेपशक्तिविशिष्टअज्ञानसे
आच्छादित चैतन्यसे आकाश उत्पन्न हुआ है आकाशसे
वायु वायुसे अग्नि अग्निसे जल जलसे पृथिवी उत्पन्न हुई है
इसी प्रकार क्रमसे प्रपञ्चविश्व उत्पन्न हुआहै श्रुतिमें भी
ऐसाही लिखा है ॥ ३९ ॥
तेषु जाड्याधिकदर्शनात्तमःप्राधान्यं तत्कारण-
स्य तदानीं सत्वरजस्तमांसि कारणगुणप्रक्रमेण
तेष्वाकाशादिषूत्पद्यन्ते । इमान्येव सूक्ष्मभूतानि