सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 34, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 34

( ३४ ) वेदान्तसार ।
मन्यते चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः
सनित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३५ ॥
( सं० टी० ) अथेदानीं स्वप्रकाशचिद्रूपस्यात्मनः कथं कुं
ठितप्रकाशत्वं कथं चासंगोदासीनस्यात्मन आकाशादिप्रपंचज
नकत्वमित्येतन्महाविरोधपरिहारायाज्ञानस्यशक्तिद्वयं निरूप्य
ते। अस्येति। ते एव नामतो निर्दिशति। आवरणविक्षेपनामकमि
ति। आवरणशक्तिस्तावत् सच्चिदानंदस्वरूपमावृणोतीत्यावरण-
शक्तिः ब्रह्मादिस्थावरांतं जगज्जलबुद्बुद्वन्नामरूपात्मकं विक्षि-
पति सृजतीति विक्षेपशक्तिरिति शक्तिद्वयमज्ञानस्येत्यर्थः। न-
न्वपरिच्छिन्नस्यस्वप्रकाशचिद्रूपाखंडपरिपूर्णस्वरूपस्यात्मनप
रिच्छिन्नेनानित्येनजडतमोरूपेणाव्यापकेनाज्ञानशक्तिविशेषेण
कथमावरणमित्याशंक्य वस्तुतोऽज्ञानस्यात्माच्छादकत्वाभा-
वेपि प्रमातृबुद्धिमात्रावच्छादकत्वेनाज्ञानस्यात्माच्छादकत्व-
मुपचारादुच्यत इत्याह । आवरणशक्तिरिति । यथाऽत्य-
ल्पोपि मेघोऽनेकयोजनविस्तीर्णमादित्यमंडलमवलोकयितृपु-
रुषदृष्टिमात्राच्छादकत्वेनादित्यमाच्छादयतीत्युपचारादुच्यते
तथा अतितुच्छपरिच्छिन्नमप्यज्ञानं अपरिच्छिन्नमात्मानं दृघनं
प्रमातृबुद्धिमात्राच्छादकत्वेनात्मानमाच्छादयतीत्युपचारादु-
च्यते इत्यर्थः। अस्मिन्नर्थे वृद्धसंमतिमाह। तदुक्तमिति ॥ ३५ ॥
( भा० टी० ) पूर्वोक्त अज्ञानकी दो शक्ति हैं जैसे आ-
वरण शक्ति और विक्षेपशक्ति । पहले आवरणशक्ति दिख-
लाते हैं । जैसे मनुष्योंके नयनोंका आवरण करनेवाला