वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 29, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । ( २९ )
प्सं न किञ्चिदवेदिषम्'इत्युत्थितस्य परामर्शाप-
त्तेश्च ॥ ३० ॥
( सं०टी० ) ननु प्रलयकाले सुषुप्तिकाले चांतःकरणत-
द्वृत्यभावेनानंदग्राहकाभावादानंदप्राचुर्यसद्भावे प्रमाणाभावमा
शंक्य परिहरति । तदानीमिति । यथा सूक्ष्मत्वेनान्तः-
करणस्य वृत्तिरंगीक्रियते तथाचैतन्यप्रदीप्त्याज्ञानस्यापिसूक्ष्मा
वृत्तयःस्वीक्रियंते तथा चेश्वरःस्वकीयाज्ञानवृत्तिभिःस्वात्मानं-
दबाहुल्यमनुभवति जीवोपि संस्कारमात्राविशिष्टातिशयाज्ञान
वृत्तिभिः स्वात्मानंदबाहुल्यं तारतम्येनानुभवतीति भावः ।
अत्रैवोपष्टंभकत्वे श्रुतिमवतारयति । आनंदभुगिति । अस्यार्थः
आनंदो विक्षेपाभावोपलक्षित आत्मानमेव भुंक्तेऽज्ञानवृत्तिभि-
रवगच्छतीत्यानंदभुक् चेत आत्मस्वरूपावबोधःसएवावरणश-
क्तिसहितो मुखं यस्य स चेतोमुखः प्राज्ञः प्रकृष्टे स्वयंप्रकाश
आनंदात्मनि अज्ञानावृत्तिरूपो बोधो यस्य स प्राज्ञः उक्ताव-
स्थाद्वयाभावेनावगम्यमानत्वात्तृतीयः उत्तरकालीनसुखपराम-
र्शोपपत्तिरपिपूर्वानुभूतसुखबाहुल्यानुभवसद्भावे प्रमाणमित्याह
सुखमहमिति । सुखमहमस्वाप्समित्यानंदपरामर्शः न किञ्चिद-
वेदिषमित्यज्ञानपरामर्शः । तथाच सुषुप्तिदशायां प्रलयकाले च
प्राज्ञेश्वरावज्ञानवृत्तिभिरानंदमनुभवत एवेत्यर्थः ॥ ३० ॥
( भा०टी० ) ईश्वर और प्राज्ञ दोनों सुषुप्तिकालमें चैत-
न्यद्वारा प्रकाशित होकर अतिसूक्ष्म अज्ञानवृत्तिके द्वारा
आनन्द भोगते हैं । इस विषयमें श्रुति प्रमाण है-“प्राज्ञ चैत-