वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 25, कुल 145 में से
संदर्भ में पढ़ेंसंस्कृतटीका-भाषाटीकासमेत । (२५)
नस्य सुषुप्तित्वं कुत इत्यत आह । सर्वोपरमत्वादिति । सर्व-
स्य स्थूलसूक्ष्मोपाधेः कारणोपाधौ लीनत्वात्सुषुप्तित्वमित्यर्थः
ननु स्थूलसूक्ष्मप्रपंचलयस्थानस्य कथं सुषुप्तित्वमित्याशंक्यसं-
ज्ञाभेद इत्याह।अत एवेति।लयकारणात्सुषुप्तित्वं अतएव पंची-
कृतभूतकार्यस्य स्थूलप्रपंचस्य जाग्रदवस्थाविशिष्टस्यापंचीकृ-
तभूतकार्यस्य । सूक्ष्मप्रपंचस्य स्वामप्रपंचविशिष्टस्य लयस्था-
नमित्यपि व्यवहियत इत्यर्थः । समष्टिरूपाज्ञानं सप्रपंचं निरू-
प्येदानीं व्यष्टिभूतमज्ञानं निरूपयितुं दृष्टांतौ तावद्दर्शयति । य-
था वनस्येति । यथा बहुवृक्षसमुदायस्य वनत्वेन रूपेणैकत्व-
व्यवहारेपि प्रत्येकविवक्षया चूतादयो बहवोपि वृक्षाः तिष्ठं-
तीति बहुत्वव्यवहारः । यथा वापीकूपतडागादिषु समुदा-
यविवक्षया जलाशय इत्येकत्वव्यवहारेऽपि प्रत्येकवाप्यादिवि-
वक्षया बहूनि जलानि तिष्ठंतीति बहुत्वव्यवहारः ॥ तथा स-
कलप्रपंचकारणस्याज्ञानस्य समुदायरूपेणैकत्वेपि अहंकारादि-
कारणीभूतानां जीवगताज्ञानानां प्रत्येकविवक्षया बहुत्वव्यव-
हार इत्यर्थः ॥ अस्मिन्नर्थे श्रुतिं प्रमाणयति । इंद्र इति । ननु
तथाप्येकस्यैवाज्ञानस्य तदवच्छिन्नचैतन्यस्य च व्यष्टिसमष्टि-
ता कुत इत्यत आह । अत्रेति । भेदविवक्षया व्यष्टित्वं मृद्ध-
टादिवत् । अभेदविवक्षया च समष्टित्वं मृत्पिंडवदित्यर्थः२७॥
( भा०टी० ) ईश्वरकी उपाधिस्वरूप यह अज्ञान समष्टि,
प्रपञ्चब्रह्माण्डका कारण है इसी कारण इसको कारणशरीर