सामग्री पर जाएँ
सर्वकोश
वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)

Vedantasara by Sadananda Yogindra

सदानन्द योगीन्द्र द्वारा

स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)

DevanagariSanskritpublished145 पृष्ठ

पृष्ठ 18, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 18

( १८ ) वेदान्तसार ।
पसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय येना-
क्षरं पुरुषं वेद सत्यं प्रोवाच ता तत्त्वतो ब्रह्मविद्याम्”
इत्यादिश्रुतेः ॥ २४ ॥
( सं०टी०) अधुनाशास्त्रारंभनिमित्ताधिकार्यादिनिरूपणा-
नन्तरं शास्त्रारंभं प्रस्तौति। अथवा लक्षितस्याधिकारिणः कर्तव्यं-
दर्शयति। अयमधिकारीइति । उक्तलक्षणलक्षितोबुद्धिसंनि-
हितोऽधिकारी गुरुमुपसरतीत्यर्थः । ननु संसारासक्तचित्तस्य वि-
षयलोलुपस्यार्तिरहितस्य गुरूपसर्पणमयुक्तमित्याशंक्याह । सं-
सारानलसंतप्त इति । संतापे हेतुमाह । जननेति । आदिशब्देन
व्याध्यादयो गृह्यन्ते। संतप्तस्यैव गुरूपसर्पणमित्यत्र दृष्टांतमाह।
प्रदीप्तशिरा इति । अर्धदग्धमस्तको दाहनिवृत्तिकामो यथा
शीतलं जलराशिमनुसरति तथा संसारतापत्रयदह्यमानस्तन्निवृ-
त्तिकामः स्वस्वरूपजिज्ञासुः संसारनिवर्तकं श्रोत्रियं ब्रह्मनिष्ठं
करतलामलकवत्स्वप्रकाशात्मस्वरूपसमर्पकं गुरुसमीपं गत्वा-
नुसरति मनोवाक्कायकर्मभिः सेवत इत्यर्थः। अस्मिन्नर्थे श्रुतिमु-
दाहरति । समित्पाणिरिति । अथ गुरुकृत्यमाह । स गुरुः परम-
कृपयेति । स पूर्वोक्तो गुरुरेनं शिष्यमुपदिशतीत्यन्वयः। ननु प-
रमरहस्यमपि ब्रह्मस्वरूपं कस्मादुपदिशतीत्यत आह। कृपयेति।
कृपाव्यतिरेकेण साधनांतराभावादित्यर्थः। नन्वखंडस्य ब्रह्मस्व-
रूपस्यागोचरत्वेनोपदेष्टुमशक्यत्वात्कथमुपदिशतीत्यत आह।
अध्यारोपेति । अखंडब्रह्मस्वरूपस्यागोचरत्वेन विधिमुखत्वेनो-
पदेष्टुमशक्यत्वेपि “नेहनानास्तिकिंचन” इत्यादिश्रुतिमनुसृत्या-