वेदान्तसार (नृसिंहसरस्वती टीका व हिन्दी व्याख्या सहित)
Vedantasara by Sadananda Yogindra
सदानन्द योगीन्द्र द्वारा
स्रोत: खेमराज श्रीकृष्णदास · खेमराज श्रीकृष्णदास · 1940 (उद्गम)
पृष्ठ 110, कुल 145 में से
संदर्भ में पढ़ें( ११० ) वेदान्तसार ।
दुर्भावे सति चित्तस्यैकाग्रतापरिणामः समाधिः । स च द्विवि-
ध इत्याह । सविकल्पको निर्विकल्पकश्चेति । तस्य लक्षणमाह ।
तत्रेति। तत्र तयोः सविकल्पनिर्विकल्पकयोर्मध्ये, सविकल्पको
पि द्विविधः। अहं ब्रह्मास्मीति शब्दानुविद्धतयाऽद्वितीये वस्तु-
नि चित्तवृत्तेरवस्थानमित्येकः । द्वितीयस्तु ज्ञातृज्ञानज्ञेयत्रिपु-
टीविलयानपेक्षयाऽहंब्रह्मास्मीति दृश्यानुविद्धतयाऽद्विती-
यवस्तुन्यविच्छेदेन चित्तवृत्तेरवस्थानमित्यर्थः । ननु “भक्षितेपि
लशुने न शांतो व्याधिः ”इति न्यायेनोक्तसविकल्पक-
समाध्योः सकलभेदनिराकरणाय प्रवर्तमानयोरपि ज्ञात्रादिभे-
दविषयत्वेन नाद्वैतवस्तुमात्रभानं तत्रेत्याशंक्येतरमाह । त-
देति । तदा सविकल्पकसमाध्यनुभवकाले ज्ञात्रादिभेदप्र-
तीतावप्यद्वैतं वस्तु भासत एव सुवर्णमयकुंडलादिभाने सुवर्ण-
भानवन्मृन्मयघटादिभाने मृद्भानवच्च घटादिभानस्य वाचारं-
भणमात्रत्वात् ज्ञात्रादिभानस्यापि वाचारंभणमात्रत्वादद्वैतमे-
व वस्तु भासत इत्यर्थः। यद्वा “सर्वं खल्विदं ब्रह्म ऐतदात्म्यमिदं स
र्वम्”इत्यादिश्रुतिबलात्सर्वमहमिति गिरिनदीसमुद्रात्मकं सर्वं
जगत्स्वाभिन्नसच्चिदानंदब्रह्मत्वेनानुभूय तस्य दग्धपटन्यायेन प्र-
पंचभानेप्यद्वैतं सच्चिदानंदलक्षणं वस्तु भासत एव इत्यर्थः । त
दुक्तं भगवता “वासुदेवः सर्वमिति स महात्मा सुदुर्लभः” इति
मूलकारोप्यस्मिन्नर्थे ग्रंथांतरसंमतिं दर्शयति। तदुक्तमिति । ॐ-
मिति यत्परं ब्रह्म तदेवाहमित्यन्वयः। किं तदित्याह।दृशिस्वरू-
पमिति । दृशिः दृष्टिः तस्याः रूपं द्रष्टृत्वं तद्यस्य परमात्म-