वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 3, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठम् ( ii )
( ii )
कल्याणप्राप्तये हिन्दीभाषायां संस्कृते च अनेके ग्रन्था निबद्धाः । तेषु प्रकाश-
मानास्तु इमे—
१-भगवत्तत्त्व ( हिन्दी ) | १-भक्तिरसार्णवः ( संस्कृतम् )
२-संकीर्तन और वर्णाश्रममर्यादा ,, | २-समन्वयसाम्राज्यसंरक्षणम् ,,
३-रामराज्य और मार्क्सवाद ,, | ३-वेदप्रामाण्यमीमांसा ,,
४-भक्तिसुधा १-३ भाग ,, | ४-वेदस्वरूपविमर्शः ,,
५-वेदकास्वरूप और प्रामाण्य१-२ भाग | ५-महात्रिपुरसुन्दरीवरिवस्या ,,
६-राहुल की भ्रान्ति ,, | ६-विधिनिर्णयः
७-अहमर्थ और परमार्थसार ,,
८-समाधान ,,
९-संघर्ष और शान्ति ,,
१०-जाति राष्ट्र और संस्कृति ,,
अयमस्ति प्रस्तुतः ग्रन्थः वेदस्वरूपविमर्शो नाम । अत्र चत्वारः भागाः
सन्ति । ते यथा—
१-वेदस्वरूपविमर्शः ३-वेदापौरुषेयत्वविमर्शः,
२-वेदप्रामाण्यविमर्शः ४-ब्राह्मणानां वेदत्वविमर्शः ।
अत्र ग्रन्थे वेदविज्ञानसम्बन्धिग्रन्थानां, निबन्धानां, दयानन्दमतानुसारि-
निबन्धानां वेदसम्बन्धिनां तथा युक्तिभिस्तर्कैः प्रमाणैश्चाप्रामाण्यं प्रतिपाद्य
सिद्धान्तपक्षः महताटोपेन विपुलो वर्तते ।
यद्यपि अयं ग्रन्थः श्रीचरणैः पूर्वमेव लिखित आसीत् तथा श्रीस्वामि-
चरणैः रचितग्रन्थसम्पादनपराणां श्रीगोविन्दवैजापुरकरमहोदयानां
सम्पादकत्वे नियुक्तश्चासीत् । तथापि प्रकाशनकर्मणि शीघ्रतामाकलय्य
सबहुमानं कृपया मह्यम् अदायि येनास्य सम्पादनभारः श्रीचरणानामाशी-
र्भिर्मया निव्यूढः ।
सन्मार्गमुद्रणालयव्यवस्थापकाः पं०श्रीनारायणस्वरूपद्विवेदब्रह्मचारिणोऽपि
धन्यवादाहर्हाः । येषां सहयोगेन अयं ग्रन्थः नव्यैः भव्यैश्च शीघ्राक्षरैः मुद्रितः
सहृदयानां पाठकानां मनांसि आवर्जयति ।
पृष्ठम् ( iii )
( iii )
वाराणसेय संस्कृतविश्वविद्यालयसाहित्यविभागाध्यक्षाः साहित्यमीमां-
साचार्याः श्रीमन्तः पट्टाभिरामशास्त्रिमहाभागाः सविशेषं धन्यवादाहर्हाः ।
येन विषयप्रवेशकारिण्या भूमिकया गौरवमानीतोऽयं ग्रन्थः ।
यतिकुलकमलदिवाकराणां सर्वप्रकारेण मयि वत्सलां दृष्टिमादधतां
अनन्तश्रीस्वामिकरपात्रमहाराजानां चरणकमलयोः सप्रणिपातं प्रणम्य
केवलं तदीयोऽहमित्युक्त्यैवात्मानं बहु मन्ये ।
अस्य ग्रन्थस्य मुद्रणालयप्राप्तेः पूर्वं यदपि सम्पादकस्य कृतेऽनिवार्यतया-
वश्यकं भवति तत्सर्वं विद्वद्वराणां श्रीमार्कण्डेयब्रह्मचारिमहोदयानां
सहयोगेन दुर्लभं नाभवत् अतस्तेऽस्मिन् विधौ सगौरवं स्मरणीयाः । अत्र
अवसरे वेदान्तिश्रीसन्तशरणमहोदयाः धन्यवादाहर्हाः येषां प्रकाशनकर्मणि
आवश्यकः सहयोगः उत्साहयति । श्रीमन्तः वासुदेवब्रह्मचारिणोपि धन्यवा-
दाहर्हाः येषामविश्रान्तं प्रवर्तमाना लेखनी सुवाच्यतामनयत् ।
सर्वमप्येतत् कार्यं प्रकाशनायत्तम् विना प्रकाशकेन पाठकानां करसरसी-
रुहेषु समर्पणं दुःशकं स्यात् । अत्र कर्मणि दिल्लीस्थसर्ववेदशाखासम्मेलन-
दत्तार्थसाहाय्येन कलिकातास्थ भक्तिसुधा साहित्य परिषत् सदस्यैः
प्रकाशनस्य भारो गृहीतः । तेपि मुख्यतया धन्यवादभाजो भवन्ति ।
तत्र श्रेष्ठिप्रवरं श्रीहनुमानप्रसादधानुकामहोदयं शुभाभिराशीर्भिः युञ्जन्-
श्रीविश्वेश्वरचरणकमलयोः पुष्परूपेण ग्रन्थमिमं समर्पयामि ।
रामगोविन्दशुक्लः
अनन्तचतुर्दशी
२०२६ विक्रमे ।