वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 2, कुल 237 में से
संदर्भ में पढ़ें( ङ )
किञ्चिन्निवेदनम् ।
वेदाः सर्वस्य लोकस्य कारणानि इत्यामनन्त्याम्नायविदः । वेदादेव
स्थावरजङ्गमात्मकस्य लोकस्य प्रादुर्भावः । तस्यैव सर्वकारणकारणस्य वेदस्य
वास्तविकं स्वरूपं को नाम वक्तुमीष्टे विना तपःप्रभावप्रकाशितत्रिकालेन
पुरुषेण । अत्र पुराणानि, सेतिहासानि दर्शनानि, वेदाङ्गानि च बहुवदन्ति
येनाल्पधियां व्यामोहो नास्वाभाविकः । अतएव परमकारुणिकैः, वेदप्रतिपा-
दितधर्मप्रतिष्ठापनाचार्यैः, अशेषशास्त्राध्ययनबोधाचरणप्रचारणपरैः, युगे
ऽस्मिन् वैदिकधर्मवितानस्याधारस्तम्भैः अनन्तश्रीस्वामिहरिहरानन्दसरस्वती
( श्रीकरपात्री जी ) महाराजैः सर्वोपादेयतामाकलय्य वैदिकमार्गविप्लावन-
पराणां वेदविज्ञानवादिनां, अन्येषां च ईश्वरप्रणीतत्वं ऋषिप्रणीतत्वं चांशतः
वदतां, ब्राह्मणानां च वेदत्वमस्वीकुर्वतां मतानि युक्तिप्रमाणाभ्यां निराकृत्य
वैदिकधर्मस्य मर्माधिजिगांसूनां कृते अयं ‘वेदस्वरूपविमर्शो’ नाम रुचिरो
ग्रन्थः निरमीयत ।
पूज्यचरणाः श्रीस्वामिपादाः १६०५ ईस्वीयवत्सरे उत्पन्नाः ज्योष्पीठाधी-
श्वरशङ्कराचार्यनन्तश्रीस्वामिब्रह्मानन्दसरस्वतीमहाराजसविधे गृहीतसंन्या-
सव्रताः, स्वात्मनोऽलौकिकया प्रतिभया व्याकरणं दर्शनानि चाधीत्य गङ्गातटे
भ्रमन्तः देशस्य प्रतिकोणं गोवधं, धर्मत्यागं, वैदिकधर्मस्य विशृङ्खलतां-
चावलोक्य खिन्न-मानसाः धर्मसंघस्थापनेन यागादिना अपूर्वमुत्पाद्य
वैधानिकेनान्दोलनेन खिन्नमनसामपि हृदये पुनः स्वाज्यप्राप्तेः उत्साहं,
परराष्ट्रे तद्राष्ट्रस्य दुर्भाग्यसूचकं समाजवादशासनं च प्रकटय्य देशस्य
महान् कार्यभारः देशस्य जनतायाः हस्तगतमकार्षुः । अधुना च वेदमागं-
प्रतिष्ठापनाय, गोवधनिरोधाय, देशे विशृ'खलस्य शासनस्य सुस्थिरता सम्पा-
दनाय विविधैरुपायैः प्रयत्नं कुर्वन्तः विराजन्ते ।
एभिः भक्तिमार्गे, ज्ञानमार्गे, राजनीतौ, धर्मनीतौ, वेदमार्गे च वास्तविक-