सामग्री पर जाएँ
सर्वकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 142, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 142

२५८ वेदस्वरूप-विमर्शः
क्षेत्रज्ञचर्चाऽप्यत्र नास्ति। निरुपचरितः प्रजापतिस्तु सर्वात्मैव।
प्रजापतिः अन्तः हृदि स्थितः सन् गर्भे गर्भमध्ये प्रविशति। यश्चाजाय-
मानोऽनुत्पद्यमानो नित्यः सन् बहुधा कार्यकारणरूपेण विजायते
मायया प्रपञ्चरूपेणोत्पद्यते। धीरा ब्रह्मविदः तस्य प्रजापतेः योनिं
स्थानं स्वरूपं वा पश्यन्ति। अहं ब्रह्मास्मीति जानन्ति। विश्वा विश्वानि
सर्वाणि भुवनानि भूतजातानि तस्मिन्नेव ब्रह्मणि तस्थुः स्थितानि। सर्वं
तदात्मकमेवेत्यर्थः। स्पष्टमिह सूर्योपलक्षितं परमात्मप्रकरणं लक्ष्यते।
अतस्तज्ज्ञानेन मृत्यन्तरणमपि संभवति। पिण्डोत्पादिनी केन्द्रशक्तिरभितः
प्रसृता पिण्डमुत्पादयतीति कथमनेन मंत्रेण सिद्धयतीति सुधियो
विदांकुर्वन्तु। गीतायान्तु-
'इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः।।
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च।
इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः।।
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम्।।
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत।।'
इत्यादिभिः महदादिदृश्यस्य क्षेत्रत्वं तत्प्रकाशकस्य द्रष्टुः क्षेत्रज्ञत्व-
मुक्तम्। तस्यैव च क्षेत्रज्ञञ्चापि मां विद्धीति परमात्माभेदोऽप्युक्तः।
परमात्मैव बुद्धयुपाधिकत्वेन विज्ञानात्माऽपि वक्तुं शक्यते। तथापि
प्रजापतिः अन्तः गर्भे चरति तैः शब्दैः क्षेत्रज्ञात्मसम्बन्धस्तदाहुतिश्च
न सिद्धयति मंत्राक्षराननुगुण्यात्। सर्वभुवनाधिष्ठाने परमात्मन्ये-
वाञ्जस्येन मंत्राक्षराणां समन्वयात्। सर्वान्तर्याम्यपि गर्भेऽन्तरुच्चरति।
नहि तावतैव तस्य बुद्धयवच्छिन्नचैतन्यरूपत्वम्।
यच्च बुद्धेद्वैविध्यं विद्याविद्यादिरूपत्वम्। धर्मज्ञानवैराग्यैश्व-
र्याणां विद्यारूपत्वम्, अधर्माज्ञानावैराग्यानैश्वर्याणाम्बाविद्यारूपत्वम्।
विद्यया मुच्यतेऽविद्यया बद्ध्यते। तत्र मद्यपि न विरोधस्तथापि बुद्धि-
वेदस्वरूप-विमर्शः २५९
सम्बन्धस्तुतीयेन मंत्रेणोच्यत" इत्यादिकथनं निष्प्रमाणमेव। भुवना-
विधानस्य भुवनसम्बन्धस्य कण्ठत उक्तत्वात्। विद्याविद्यास्वरूपबन्ध-
मोक्षसाधनत्वादिवर्णनन्तु मंत्रार्थो न भवत्येव। धर्मादीनान्तु विद्यो-
पकारकत्वेन विद्यात्वेऽपि मुख्यविद्यात्वाभाव एव। वेदान्तमहा-
वाक्यादिजन्यब्रह्मापरोक्षसाक्षात्कारस्य मुक्तिहेतुत्वेन विद्यात्वात्। यथा-
कथञ्चिद्विद्यात्वन्तु ज्ञानमात्रस्यैव वक्तुं शक्यम्।
यदुक्तम् - "यो देवेभ्य आतपति यो देवानां पुरोहितः पूर्वो यो
देवेभ्यो जातो नमो रुचाय ब्राह्मये (३१।२०) इति चतुर्थेनेन्द्रि-
यसम्बन्धो मनः सम्बन्धश्वोच्यते। देवा एवेन्द्रियरूपेण प्रविशन्तीति
सूचितम्। प्रथमे मंत्रेऽन्यत्राऽपि बहुत्र श्रुतिषु देवा इन्द्रियाण्युच्यन्ते।
देवेभ्यो य आतपति देवानां यो पुरोहितः इति मनः सूचितम्।
अनेनैव मनसा ब्राह्मीरूक् भवति । स्मृ तिश्चोयुक्तं 'मन एव
मनुष्याणां कारणं बन्धमोक्षयो'रिति तदपि कल्पनामात्रम्।
द्योवनात्मकत्वेनेन्द्रियाणां क्वचिद्दे वत्वेऽप्यत्र देवानां मुख्ययार्थग्रहणे
बाधाभावात्तदनुपपत्तेः। मनसश्चातपकतत्त्वपुरोहितत्वाप्रसिद्धेश्च।
एवं ब्राह्मीरूक् यदि ब्रह्म प्रकाशरूपो ब्रह्मसाक्षात्कार उच्यते तदा न
दोषः। अन्या काचिद्रुक् तदा सा निर्वक्तव्या। तथाप्यत्र सूर्योपस्थानरूपे
मंत्रे नैतत् श्लिष्यते। मंत्रार्थस्तु यः प्रजापतिरादित्यरूपः देवेभ्योऽर्थाय-
आतपति द्योतते। यः देवानां पुरः हितः स्थितः, सर्वकार्येषु अग्रे नीतः।
यः देवेभ्यः सकाशात् पूर्वं प्रथममुत्पन्नः। तस्मै आदित्याय नमः। कीटशाय
रुचाय रोचते इति रुचः तस्मै रुचाय दीप्यमानाय। तेजसे ब्राह्मये
ब्रह्मणोपत्यं ब्राह्मिस्तस्मै ब्रह्मावयवभूताय वेति सूर्यसम्बन्धे सर्वाणि
मंत्राक्षराण्याञ्जस्येन सङ्गतानि भवन्ति। देवा इन्द्रियाणि मन आतपति,
पुरोहितमनसा काचिद् ब्राह्मीरूग् जायत इत्यादि अक्षरवाह्यक्लिष्टकल्पना
निराधारा। रुचं ब्राह्मं जनयन्त देवा इति मंत्रेऽपि देवाः प्राणाः रुचं
शोभनं ब्राह्मम् ब्रह्मणोऽपत्यमादित्यं जनयन्तः उत्पादयन्तः अग्रे तत वचो
ऽम् वन्। अस्मिन् मंत्रे देवा अन्ये पूर्वस्मिन्नन्ये। अस्मिन्मंत्रे आदित्यं