वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 141, कुल 237 में से
संदर्भ में पढ़ें[पृष्ठ २५६]
स्वप्रकाशः महान्तं पुरुषमित्यादिभिर्बोधितः । मम योनिर्महद्ब्रह्म इत्या-
दावपि न महत्तत्त्वं महानात्मा वा भवदभिमतो गृहीतः तत्र ब्रह्मपर-
महच्छब्दस्य ब्रह्मशक्तिरूपमायाबोधकत्वात् । तस्यैव ब्रह्मगर्भाधिकरण-
त्वात् । महदात्मनस्तु कार्य्यत्वमेव न सर्वभूतकारणत्वम् । सर्वमूर्तिषु
महतोऽपि समाविष्टत्वेन सर्वमूर्तियोनित्वं प्रकृतेरेव, सर्वसंमतम् ।
भगवच्छक्तिरूपायां मायायामेव बीजप्रदो भगवान् बीजप्रदानेन सर्व-
जनको भवति । सा च सर्वजननीति प्रसिद्धमेव । यदि प्रकृतिरूप एव
महानात्मा उच्यते तदाऽव्यक्तस्य महत्परत्वोक्तिर्व्याहन्येत । तत्राकृति
महान्, प्रकृतिमहान्, अहङ्कृतिमहान् इत्यादि भेदोऽपि निर्मूल एव ।
प्रकृति-महदहङ्कारशब्दैरेव तद्बोधसंभवेन महत्पदप्रयोगस्य वैयर्थ्यात् ।
महत्त्वाभिप्रायेण तत्प्रयोगश्चेत्तदा महद्ब्रह्मपदेन ब्रह्माण्डोऽपि बोधः
प्रसज्येत, तस्यैव सर्वमहत्त्वात् । न चेष्यत एव, बीजप्रदातुः परमेश्वरस्य
तदन्यलोकैः । महद्ब्रह्मपदेन प्रकृतिबोध एव तु विवक्षितः । तत्रैव
ब्रह्मकर्तृकगर्भाधानोपपत्तेः । कार्य्याणामाकृतयस्तु कारणादेव निष्पद्यन्ते ।
अतएवाकृतिमहानित्यादिभेदो निर्मूल एव । शरीरनिष्ठेषु मन आदिषु
अहम्भावोऽप्यन्योन्याध्यासमूलको नाहम्मूलकः भूतानां मंत्राणां वा
उपादानभूतोऽहङ्कारस्तु ततोऽन्यः । स च राजस-तामस-वैकारिक-
(सात्त्विक) भेदेन भूतप्राणेन्द्रियमनोदेवोपादानत्वेन त्रिविधः । 'महा-
भूतान्यहङ्कारो बुद्धिरव्यक्तमेव चे'त्यादि गीतावचनात् ।
समष्ट्यहम्मूलकान्तःकरणस्यावस्थाविशेषो व्यष्ट्यहङ्कारः । स एव
साभासः साधिष्ठानोऽहमर्थभूतः सोपाधिको जीवोऽपि । देहादिकस्त्वहं
शब्दस्य गौणोऽर्थः । शुद्ध आत्मा तु अहं पदस्य लक्ष्यार्थ इत्यन्यत्र
विस्तरः ।
परं वेदाहमेतं पुरुषं महान्तमित्यादिषु महत्तत्त्वरूपो हिरण्य-
गर्भरूपो वा महानात्मा सर्वथाऽपि न वर्णितः । गीतास्थलेष्वपि नायं
वर्णितः । 'बुद्धेरात्मा महान् पर' इत्यत्र तु समष्टिबुद्धिर्महानात्मा
वर्णितः । मंत्रे परमात्मज्ञानेन मृत्यन्तरणरूपामृतत्वप्राप्तिरुक्ता । सा च न
त्रिलोक्या बहिः परमेष्ठिलोकप्राप्त्या 'न तस्य प्राणा उत्क्रामन्ति इहैव
[पृष्ठ २५७]
समवनीयन्ते' इति श्रुतिविरोधात् । हिरण्यगर्भोपासनासाध्यक्रम-
मुक्तिस्तु ब्रह्मलोकाप्त्या सिद्ध्यति, महाप्रलये तु हिरण्यगर्भस्य मरण-
श्रवणात् ब्रह्मस्वरूपसाक्षात्कारेण ततोऽपि ब्रह्मणा सह तल्लोकनिवासिना
निरुपाधिब्रह्मतादात्म्यावाप्तिरेव मुक्तिः । न केवलं परमेष्ठिलोकस्यैदृशी-
गतिः, स्वयम्भूलोकस्यापि प्रतिसञ्चरे (प्रलये) तथालोपपत्तेः ।
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ।
सोऽयं महान् सर्वत्र व्यामो भूतात्मना सम्बद्धो भवतीति मंत्रे
उक्त इति न संगतम्, तथाभूतस्यार्थस्य मन्त्रादनवगतेः । परमेष्ठिमण्डला-
च्चन्द्रमण्डले ततो भूमिष्ठेषु जीवेष्ववततार इत्यपि कल्पनामात्रम्,
व्यापकस्यावतारासंगतेः । अहंकारादिकारणस्य महतः स्वकार्यान्वस्यूत-
त्वेनाप्यवतारासंगतिः । न च व्यष्टिबुद्धिविशेषरूपेणावतरणं संगत-
मिति वाच्यम्, तथापि त्रिलोकीबहिष्ठस्य तदनुपपत्तेः श्रद्धाशब्द-
निरुक्तिस्तु न प्रत्याख्यायते तथापि सत्त्वानुरूपत्वेन श्रद्धाया न सर्वत्र तया
सत्यधारणं संभवति । अतः श्रतो विश्वासस्यैव धानं श्रद्धेति तु युज्यते,
विश्वासस्य सत्त्वानुरूपत्वोपपत्तेः । श्रद्धापूर्वकत्वात् कर्मणामग्निहोत्रा-
दीनां