वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 129, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ २३४
सर्वस्य जायमानत्वात् सर्वस्य यज्ञत्वं स्पष्टमेवेति पृथक्-पृथक् तत्समर्थनं
व्यर्थमेव । यदि तस्यैव यज्ञनामकरणमिष्यते तर्ह्रीष्यताम् । न तावता
याज्ञिकप्रसिद्धयज्ञत्वं तत्र सम्भवति, तस्य भवदभ्यूहमात्रत्वात् ।
तस्मान्न द्वयोः सम्बन्धेन रूपान्तरतापत्तिरेव यज्ञः । द्विसंयोगेषु बहुषु
पदार्थेषु यज्ञत्वव्यवहाराभावात् । उद्धृतशतपथप्रमाणेनापि तन्न
सिद्ध्यति, तत्र पृथिव्यास्तदवस्थानाञ्च वर्णनेऽपि पृथिव्या यज्ञत्वानुक्तेः ।
अतएव द्वाभ्याज्ञातानामभिनवपदार्थरूपफेनादीनामपि यज्ञत्वं नाम्नातम् ।
वस्तुतस्तु इष्टकाचयनप्रसङ्गे इष्टकायाः केनचित्साम्येन पृथिवीत्वमुक्तम् ।
सेयं चतुःस्रक्तिर्दिशो ह्यस्यै स्रक्तयस्तस्माच्चतुःस्रक्तयः इष्टका भवन्तीति ।
भूमेर्दिक्षूपचतुःस्रक्तियुक्तत्वाद्दिदानीन्तनेः चतुःस्रक्तय इष्टकाः कार्या
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें