सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 247, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 247

२३८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६६ श्लो० ६-३०]
( कश्यपीयप्रजासर्गः )

दर्शश्च पौर्णमासश्च बृहद्यच्च रथंतरम् । चित्तिश्चैव विचित्तिश्च आकृतिः कूर्विरेव च ॥ ६
विज्ञाता चैव विज्ञातो मनो यज्ञश्च ते मृताः । नामान्येतानि तेषां वै जयानां प्रथितानि च ॥ ७
ब्रह्मशापेन ते जाताः पुनः स्वायंभुवे जिताः । स्वारोचिषे वै तुषिताः सत्याश्चैवोत्त्तमे पुनः ॥ ८
तामसे हरयो नाम वैकुण्ठा रैवतान्तरे । साध्याश्च चाक्षुषे नाम्ना छन्दजा अज्ञिरे सुराः ॥ ९
धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः । पूर्वं स्म अनुसूयन्ते चाक्षुषस्यान्तरे मनोः ॥ १०
स्वारोचिषेऽन्तरेऽतीता देवा ये वै महौजसः । तुषिता नाम तेऽन्योन्यमूचुर्वै चाक्षुषेऽन्तरे ॥ ११
किंचिच्छिष्टे तदा तस्मिन्देवा वै तुषिताऽब्रुवन् । इतरेतरं महाभागान्वयं साध्यान्प्राविश्य वै ॥
मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति ॥ १२
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । तस्माद्द्वादश संभूता धर्मात्स्वायंभुवात्पुनः ॥ १३
नरनारायणौ तत्र जज्ञाते पुनरेव हि । विपश्चिदिन्द्रो यश्चाऽऽसीत्तथा सत्यो हरिश्च तौ ॥
स्वारोचिषेऽन्तरे पूर्वमास्तां तौ तुषितौ सुरौ ॥ १४
तुषितानां तु साध्यत्वे नामान्येतानि वक्ष्यते । मनोऽनुमन्ता प्राणश्च नरो यानश्च वीर्यवान् ॥ १५
चित्तिर्हयो नयश्चैव हंसो नारायणस्तथा । प्रभवोऽथ विभुश्चैव साध्या द्वादश जज्ञिरे ॥ १६
स्वायंभुवेऽन्तरे पूर्वं ततः स्वारोचिषे पुनः । नामान्यासन्पुनस्तानि तुषितानां निबोधत ॥ १७
प्राणोऽपानस्तथोदानः समानो व्यान एव च । चक्षुः श्रोत्रं तथा प्राणः स्पर्शो बुद्धिर्मनस्तथा ॥ १८
प्राणापानावुदानश्च समानो व्यान एव च । नामान्येतानि पूर्वं तु तुषितानां स्मृतानि ह ॥ १९
वसोस्तु वसवः पुत्राः साध्यानां मनुजाः स्मृताः । धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः ॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ २०
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा । ध्रुवपुत्रो भवो नाम्ना कालो लोकमकालनः ॥ २१
सोमस्य भगवान्वर्चा बुधश्च ग्रहबोधनः । रोहिण्यां तौ समुत्पन्नौ त्रिषु लोकेषु विश्रुतौ ॥ २२
धारोर्मिकालिलाश्चैव त्रयश्चन्द्रमसः सुताः । आतपस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च ॥ २३
स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः । अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ॥
तस्य शाखो विशारवश्च नैगमेयश्च पृष्ठजाः ॥ २४
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञातगतिश्चैवद्वौ पुत्रावनिलस्य च ॥ २५
प्रत्यूषस्य विदुः पुत्रमृषिर्नाम्ना तु देवलः । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ २६
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ॥ २७
प्रभासस्य तु या भार्या वसूनामष्टमस्य ह । विश्वकर्मा सुतस्तस्या जातः शिल्पिपजापतिः ॥ २८
स कर्ता सर्वशिल्पानां त्रिदशानां च वर्धकिः । भूषणानां च सर्वेषां कर्ता कारयिता च सः ॥ २९
सर्वेषां च विमानानि देवतानां करोति सः । मानुषाश्चोपजीवन्ति यस्य शिल्पानि शिल्पिनः ॥ ३०