सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 246, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 246

[अ०६५-६६श्लो०१४७-१५९।१-५] वायुपुराणम् । २३७
( कश्यपीयप्रजासर्गः )
बालिशा बत यूयं वै न प्रजानीथ भूतलम् । अन्तमूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ १४७
किं प्रमाणं तु मेदिन्याः स्रष्टव्यानि तथैव च । अविज्ञायेह स्रष्टव्यं अन्यथा किं तु स्रक्ष्यथ ॥
अल्पं वाऽपि बहुर्वाऽ(वाऽ)पि तत्र दोषस्तु दृश्यते ॥ १४८
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् । वायुं तु समनुप्राप्य गतास्ते वै पराभवम् ॥ १४९
अद्यापि न निवर्तन्ते भ्रमन्तो वायुमिश्रिताः । एवं वायुपथं प्राप्य भ्रमन्ते ते महर्षयः ॥ १५०
स्वेषु पुत्रेषु नष्टेषु दक्षः प्राचेतसः पुनः । वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥ १५१
प्रजा विवर्धयिषवः शबलाश्वा पुनस्तु ते । पूर्वमुक्तं वचस्तत्र श्राविता नारदेन ह ॥ १५२
तच्छ्रुत्वा वचनं सर्वे कुमारास्ते महौजसः । अन्योन्यमूचुस्ते सर्वे सम्यगाह महानृषिः ॥
भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः ॥ १५३
ज्ञात्वा प्रमाणं पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः । × तेऽपि तेनैव मार्गेण प्रयाताः सर्वतोदिशम् ॥
अद्यापि न निवर्तन्ते समुद्रेभ्य इवाऽऽपगाः ॥ १५४
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः । प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ १५५
नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽभवद्विभुः । नारदं नाशमेहीति गर्भवासं वसेति च ॥ १५६
तथा तेष्वपि नष्टेषु महात्मसु पुरा किल । षष्टिकन्याऽसृजद्दक्षो वैरिण्यामेव विश्रुताः ॥ १५७
तास्तदा प्रतिजग्राह पत्न्यर्थे कश्यपः प्रभुः । धर्मः सोमस्तु भगवांस्तथैवान्ये महर्षयः ॥ १५८
इमां विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः । आयुष्मान्कीर्तिमान्धन्यः प्रजावांश्च भवत्युत ॥ १५९
इति श्रीमहापुराणे वायुप्रोक्ते प्रजापतिवंशानुकीर्तनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥
आदितः श्लोकानां समष्ट्यङ्काः— ५८२५

अथ षट्षष्टितमोऽध्यायः ।
कश्यपीयप्रजासर्गः ।

ऋषय ऊचुः—
देवानां दानवानां च दैत्यानां चैव सर्वशः । उत्पत्तिं विस्तरेणेह ब्रूहि वैवस्वतेऽन्तरे ॥ १
सूत उवाच—
धर्मस्य तावद्वक्ष्यामि निसर्गं तं निबोधत । अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ॥ २
संकल्पा च मुहूर्ता च साध्या विश्वा तथैव च । धर्मपत्न्यो दश त्वेता दक्षः प्राचेतसो ददौ ॥ ३
साध्या पुत्रांस्तु धर्मस्य साध्यान्द्वादश जज्ञिरे । साध्या नाम महाभागाश्छन्दजा यज्ञभागिनः ॥
देवेभ्यस्तानपरान्देवान्देवज्ञाः परिचक्षते ॥ ४
ब्रह्मणो वै मुखात्सृष्टा जया देवाः प्रजेप्सया । सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ ५


× इदमर्धं नास्ति ख. ग. घ. ङ. पुस्तकेषु ।