सामग्री पर जाएँ
सर्वकोश
वायु पुराण

वायु पुराण

Vayu Purana

महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (उद्गम)

DevanagariHindipublished465 पृष्ठ

पृष्ठ 248, कुल 465 में से

संदर्भ में पढ़ें
पृष्ठ 248

[अ० ६६ श्लो० ३१-५४] वायुपुराणम् । २३९
( कश्यपीयप्रजासर्ग )

विश्वे(धृ)देवास्तु विश्वाया जज्ञिरे दश विश्रुताः । क्रतुर्दक्षः श्रवः सत्यः कालः कामो धुनिस्तथा ॥ ३१
कुरुवान्प्रभवांश्चैव रोचमानश्च ते दश । धर्मपुत्राः स्मृता ह्येते विश्वायां जज्ञिरे शुभाः ॥ ३२
मरुत्वत्यां तु मरुतो भानवो भानुजाः स्मृताः । मुहूर्ताश्च मुहूर्तायां घोषं लम्बा व्यजायत ॥ ३३
संकल्पायां तु संजज्ञे विद्वान्संकल्प एव च । नागवीथ्यस्तु जाम्यां च पथत्रयसमाश्रिताः ॥ ३४
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत । एष सर्गः समाख्यातो विद्वान्धर्मस्य शाश्वतः ॥ ३५
मुहूर्ताश्चैव तिथ्यश्च पतिभिः सह सुव्रताः । नामतः संप्रवक्ष्यामि ब्रुवतो म निबोधत ॥ ३६
अहोरात्रविभागश्च नक्षत्राणि समासतः । मुहूर्ताः सर्वनक्षत्रा अहोरात्रविदस्तथा ॥ ३७
अहोरात्रकलानां तु षट्शतीत्यधिका स्मृता । रवेर्गतिविशेषेण सर्वेषु ऋतुमिच्छतः ॥ ३८
ततो वेदविदश्चैतां तिथिमिच्छन्ति पर्वसु । अविशेषेषु कालेषु योज्यः स पितृदानतः ॥ ३९
रौद्रः सार्वस्तथा मैत्रः पिण्डचवासव एव च । आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंत्रिताः ॥ ४०
प्राजापत्यस्तथा ऐन्द्रस्तथेन्द्रो निर्ऋतिस्तथा । वरुणश्च तथाऽर्यम्णो भागाश्चापि दिनाश्रिताः ॥ ४१
एते दिनमुहूर्ताश्च दिवाकरविनिर्मिताः । शंकुच्छायाविशेषेण वेदितव्याः प्रमाणतः ॥ ४२
अजास्तथाऽहिर्बुन्ध्नश्च पूषा हि यमदेवताः । आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ॥ ४३
ब्रह्मसौम्यस्तथाऽऽदित्यो बार्हस्पत्योऽथ वैष्णवः । सावित्रोऽथ तथा त्वष्ट्रो वायव्यश्चेति संग्रहः ॥ ४४
एकरात्रिमुहूर्ताः स्युः क्रमोक्ता दश पञ्च च । इन्दोर्गक्युदया ज्ञेया नालिकाः पादिकास्तथा ॥
कालावस्थास्तिवमास्त्वेते मुहूर्ता देवताः स्मृताः ॥ ४५
सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च । दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् ॥ ४६
स्थानं जारद्गवं मध्ये तथैरावतमुत्तरम् । वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ॥ ४७
अश्विनी कृत्तिका याम्या नागवीथिरिति स्मृता । पुष्योऽश्लेषापुनर्वसू वीथीरैरावती मता ॥
तिस्रस्तु वीथयो ह्येता उत्तरो मार्ग उच्यते ॥ ४८
पूर्वोत्तरे फाल्गुन्यौ च मघा चैवार्यमी स्मृता । हस्तचित्रे तथा स्वाती गोवीथीत्यभिशब्दिता ॥ ४९
ज्येष्ठा विशाखाऽनुराधा वीथि जारद्गवी स्मृता । एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते ॥ ५०
मूलं चाऽऽषाढे द्वे चापि अजवीथ्यभिशब्दिषा । श्रवणं च धनिष्ठा च गार्गी शतभिषक्तथा ॥ ५१
वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता । स्मृता वीथ्यस्तु तिस्रस्ता मार्गो वै दक्षिणो बुधैः ॥ ५२
सप्तविंशत्तु याः कन्या दक्षः सोमाय ता ददौ । सर्वा नक्षत्रनाम्र्यस्ता ज्योतिषे चैव कीर्तिताः ॥
तासामपत्यान्यभवन्दीप्तान्यमिततेजसा ॥ ५३
यास्तु शेषास्तदा कन्याः पतिजग्राह कश्यपः । चतुर्दश महाभागाः सर्वास्ता लोकमातरः ॥ ५४