वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 90, कुल 106 में से
संदर्भ में पढ़ें७६
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥ १३ ॥
गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा ।
पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ॥ १४ ॥
यवान्विधिनोपयुञ्जानः प्रत्यक्षेणैव शुध्यति ।
विशुद्धभावे शुद्धाः स्युरशुद्धे तु सराणिगः ॥ १५ ॥
हविष्यान्प्रातराशांस्त्रीन्सायमाशांस्तथैव च ।
अयाचितं तथैव स्यादुपवासत्रयं भवेत् ॥ १६ ॥
अथ चेच्चरते कर्तुं दिवसं मारुताशनः ।
रात्रौ जलाशये व्युष्टः प्राजापत्येन तत्समम् ॥ १७ ॥
सावित्र्यष्टसहस्रं तु जपं कृत्वोत्थिते रवौ ।
मुच्यते पातकैः सर्वैर्यदि न ब्रह्महा भवेत् ॥ १८ ॥
यो वै स्तेनः सुरापो वा भ्रूणहा गुरुतल्पगः ।
धर्मशास्त्रमधीत्यैव मुच्यते सर्वपातकैः ॥ १९ ॥
दुरितानां दुरिष्टानां पापानां महतां तथा ।
कृच्छ्रं चान्द्रायणं चैव सर्वपापप्रणाशनम् ॥ २० ॥
एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् ।
अमावास्यां न भुञ्जीत एवं चान्द्रायणो विधिः ॥
एवं चान्द्रायणो विधिरिति ॥ २१ ॥
इति वासिष्ठधर्मशास्त्रे सप्तविंशोऽध्यायः ॥ २७ ॥
13. शौचयत् H. 17. जलस्थितः B. F. H. 18. न भ्रूणहा. Bh. E.
H, नो ब्रह्महा B. Ban. ed. नात्रभ्रंहा. F.