वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 89, कुल 106 में से
संदर्भ में पढ़ें७५
यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् ।
तथा दहति वेदाग्निः कर्मजं दोषमात्मनः ॥ २ ॥
हत्वापि स इमाँल्लोकान्भुञ्जानोपि यतस्ततः ।
ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन ॥ ३ ॥
न वेदबलमाश्रित्य पापकर्मरतिर्भवेत् ।
अज्ञानाच्च प्रमादाच्च दह्यते कर्म नेतरत् ॥ ४ ॥
तपस्तप्यति योरण्ये मुनिर्मूलफलाशनः ।
ऋचमेकां च योधीते तच्च तानि च तत्समम् ॥ ५ ॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ ६ ॥
वेदाभ्यासोन्वहं शक्त्या महायज्ञक्रियाक्रमः ।
नाशयत्याशु पापानि महापातकजान्यपि ॥ ७ ॥
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
तद्धि कुर्वन्यथाशक्त्या प्राप्नोति परमां गतिम् ॥ ८ ॥
याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात् ।
विप्रेषु न भवेद्दोषो ज्वलनार्कसमो हि सः ॥ ९ ॥
शङ्कास्थाने समुत्पन्ने अभोज्यभोज्यसंज्ञके ।
आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥ १० ॥
अक्षारलवणां रूक्षां पिबेद्ब्राह्मीं सुवर्चलाम् ।
त्रिरात्रं शङ्खपुष्पीं च ब्राह्मणः पयसा सह ॥ ११ ॥
पलाशबिल्वपत्राणि कुशान्पद्मानुदुम्बरान् ।
क्वाथयित्वा पिबेदापस्त्रिरात्रेणैव शुध्यति ॥ १२ ॥
२. वातबलः F. वह्नेर्जः H. ३. नैनमाप्नोति. H. ४. नेतरम्. E. F. H.
5. ॰फलाशिनः E. H. 7. ॰क्रियाक्षमः B. F. H. 8. ॰यथाशक्ति
F. H. 9. यजनाध्यापनांज्ञानात्तथैव B F. 10. अभोज्यमक्ष. H.
11. रूढां. F. H.