सामग्री पर जाएँ
सर्वकोश
वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 91, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 91

७७
न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा ।
नापो मूत्रपुरीषेण नाग्निर्दहनकर्मणा ॥ १ ॥
स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता ।
बलात्कारोपभुक्ता वा चोरहस्तगतापि वा ॥ २ ॥
न त्याज्या दूषिता नारी नास्यास्त्यागो विधीयते ।
पुष्पकालमुपासीत ऋतुकालेन शुध्यति ॥ ३ ॥
स्त्रियः पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् ।
मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ॥ ४ ॥
पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ।
गच्छन्ति मानुषान्पश्चान्नैता दुष्यन्ति धर्मतः ॥ ५ ॥
तासां सोमोददच्छौचं गन्धर्वः शिक्षितां गिरम् ।
अग्निश्च सर्वमेध्यत्वं तस्मान्निष्कल्मषाः स्त्रियः ॥ ६ ॥
त्रीणि स्त्रियः पातकानि लोके धर्मविदो विदुः
भर्तृवधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥ ७ ॥
वत्सः प्रस्रवणे मेध्यः शकुनिः फलपातने ।
स्त्रियश्च रतिसंसर्गे श्वा मृगग्रहणे शुचिः ॥ ८ ॥
अजाश्वा मुखतो मेध्या गावो मेध्यास्तु सर्वतः ॥ ९ ॥
सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् ।
येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥ १० ॥
अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः ।
कूष्माण्डानि पावमान्यो दुर्गासावित्रिरेव च ॥ ११ ॥
XXVIII. 1. वारेण B. F. २. बलात्कारेण भुक्ता. E. H. चौर°
F. H. 5. पश्चाच्च दुष्यन्ति F. H. 6. सर्वभक्षत्वं B. F. H. 7. भर्तृ-
वैधः F. H. 8. फलशातने F. H. वत्सो मध्यावने मेध्यः H. 11. शुद्धवत्य-
रतसमा. Bh. E. H.