सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 468, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 468

३६६ वरिवस्यारहस्ये
चर्षिप्रोक्तत्वेन प्रामाणिकत्वे सिद्धे 'प्रयोगशरणा वैयाकरणाः' इत्युक्तेरेतदनुसारेणैव
व्याकरणलक्षणानां कल्प्यत्वात् परिहार्यः ॥ १२८, १३० ॥
तत्प्रकारमेव प्रदर्शयति—
धातोर्बह्वर्थत्वाद् बहुलग्रहणात् पृषोदरादित्वात् ।
आकृतिगणपाठेन स्वेच्छानुगुणादुणादिकल्पनतः ॥ १३१ ॥
छन्दसि सर्वविधीनां वैकल्पिकतावशादमुष्य मनोः ।
सिद्धैः कथिते ऽर्थे ऽस्मिन् वैयाकरणानुशासनानुमतिः ॥ १३२ ॥
(सिद्धों द्वारा स्थापित मंत्रार्थों की व्याकरण द्वारा पुष्टि
की अनिवार्यता का प्रतिपादन)
धातुओं के अनेकार्थक होने के कारण, बहुल को (मान्य परम्परा के रूप में)
ग्रहण करने के कारण, पृषोदरादि में विभिन्न प्रकरणों को सम्मिलित करने के
कारण, (पाणिनीय व्याकरण में) आकृतिगणपाठ होने के कारण, उणादिसूत्रों के
अर्थों को स्वप्रयोजनार्थ स्वेच्छापूर्वक कल्पित करने के कारण, वैदिक ग्रंथों में समस्त
शास्त्रीय विधियों के विकल्पित होने के कारण सिद्धों द्वारा निर्धारित मंत्रों के अर्थ
को वैयाकरणों द्वारा भी स्वीकृति प्रदान की गई है ॥ १३१-१३२ ॥

  • प्रकाश *
    'कुर्दखूर्दगुर्दगुद क्रीडायामेव' इत्येवकारेण 'तनूकरणे तक्षः' इत्यत्रार्थनिर्देश-
    बलाच्च सत्ताद्यर्थनिर्देशस्योपलक्षणमात्रत्वेन धातवो ऽनेकार्थाः । तेन स्यतेरन्तकर्म-
    वाचकत्वे ऽप्युपभोगार्थकत्वमविरुद्धम् । अत एव चेडो ऽधिपूर्वत्वात् केवलप्रयोगासंभवे
    ऽपि 'इट्किटक्टी गतौ' इत्यत्र प्रश्लिष्ट ईकार एवैतदर्थको भविष्यति, गत्यर्थानां
    सर्वेषामपि ज्ञानार्थकत्वात् । बहुलेति ।
    'क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिदन्य एव ।
    विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥'
    इति बहुलपदार्थः । तेन ल्हीत्यत्राकारलोपः सिद्धः । 'रण्डः' इत्यादिसिद्ध्यर्थ-
    मडितो ऽपि जमन्ताड्डस्य डित्त्वमपि सिद्धम्' गत्यन्तरमप्याह—पृषोदरादित्वादिति ।
    'पृषोदरादीनि यथोपदिष्टम्' पृषोदरादयः शब्दा यथैव शिष्टैः प्रयुज्यन्ते तथैव साधवः, न
    तत्र लक्षणान्तरं मृग्यमित्यर्थः । न चैवं सति स्थलान्तरे ऽपि ल्ह्रीति प्रयोगापत्तिः
    पृषोदरशब्दवदिति वाच्यम्, अत्रैव साधुरिति नियमस्वीकारात् । अत एव 'गूढोऽऽत्मा'
    इति न स्थलान्तरे प्रयुज्यते । अत एव च विष्णुसहस्रनामभाष्ये 'न्यग्रोधोदुम्बरो ऽश्वत्थः'
    इत्यत्र पृषोदरादित्वात् संधिरित्युक्तं शङ्करभगवत्पादैः । गणपाठाभावे त्वाह—आकृतीति ।
    षुञ्धातोर्डप्रत्ययादर्शनादाह—स्वेच्छेति ।
    'संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।
    कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥'