सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 460, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 460

३५८ वरिवस्यारहस्ये
३. ॠकारं परमे शानि स्वयं परमकुण्डली ॥१
पञ्चप्राणमयं वर्णं पंचदेवमयं सदा।
पंचप्राणयुतं वर्णं तथा त्रयगुणात्मकं ॥२
४. ॡकारं परमेशानि कुण्डलीमूर्तिमान स्वयं ।
पञ्चप्राणमयं वर्णं चतुर्ज्ञानमयं सदा ॥३
५. ऐकारः परमं दिव्यं महाकुण्डलिनी स्वयं ॥
६. रक्तविद्युल्लताकारं औकारं कुण्डली स्वयं ॥
७. एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकः ॥४
८. ककारं परमेशानि कुण्डलीत्रयसंयुक्तं ॥
९. चवर्णं शृणु सुश्रोणि चतुर्वर्गप्रदायकं ।
कुण्डली सहितं देवी! स्वयं परमकुण्डली ॥५
पंचप्राणात्मकं वर्णं पंचप्राणमयं सदा ।
त्रिविन्दु सहितं वर्णं त्रिशक्तिसहितं सदा ॥
१०. लकारं चंचलापांगि कुण्डलीत्रयसंयुक्तं ॥
११. हकारं शृणु चार्वंगि चतुर्वर्गप्रदायकं ।
कुण्डलीत्रयसंयुक्तं रक्तविद्युल्लतोपमं ॥
१२. सकारं शृणु चार्वंगि शक्तिबीजं परात्परं ।
कोटिविद्युल्लताकारं कुण्डलीत्रय संयुक्तं ॥
१३. अकारादिक्षकारान्तं स्वयं परमकुण्डली ॥६
अथ सामरस्यार्थमाह—
कहयोर्लसयोर्थौ शिवशक्ती शुद्धयोरचोः शक्तिः ।
उभयोः समरसभावो हृल्लेखायाः परं ब्रह्म ॥ ११९ ॥
(श्रीविद्या के सामरस्यार्थ का स्वरूप)
‘क’ (कादि विद्या के तीन ककारों), ‘ह’ (दो हकारों), ‘ल’ (तीन लकारों)
एवं ‘स’ (दो सकारों) का अर्थ (क्रमशः) ‘शिव’ एवं ‘शक्ति’ हैं। शुद्ध स्वरों (ए
एवं इ) का अर्थ शक्ति है । हृल्लेखा (ह्रीं) का अर्थ शिव एवं शक्ति का सामरस्य
रूप (समरसभाव रूप) पर ब्रह्म है ॥ ११९ ॥

  • प्रकाश *
    कादिविद्यायां हि ककारास्त्रयो हकारौ द्वौ । तेषां शिव एवार्थः । एवं
    लकारास्त्रयः सकारौ द्वौ, तेषां शक्तिः । अत एव मन्मथबीजे ककारलकारयोर्योगः,
    १-६. कामधेनु तन्त्र