वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 451, कुल 530 में से
संदर्भ में पढ़ेंद्वितीयोंऽशः ३४९
वामगतौ वामभागस्यैकेत्तरत्वात् । अथ वा, बिन्दुगण उत्तरो येभ्यस्ते गजादय इति
विग्रहः । गजादीन् वामगत्या विलिख्य जातस्याङ्कसमूहस्योत्तरत्र दक्षिणगत्यैव बिन्दवो
लेख्या इत्यर्थे फलिते न विवादः । एवं च शतत्रयोत्तरसप्तविंशतिसंख्याकपरार्धानि
षण्मध्यान्यष्टान्त्यनि च त्रिशत्युक्तार्थभेदा भवन्ति । अङ्कतो ऽपि ३२,७६८,०००,
०००,०००,०००,०००। एतदङ्कज्ञानप्रकारस्तु 'चरमाङ्कमारभ्य पूर्वपूर्वाङ्कद्दशदश-
गुणिता उत्तरोत्तराङ्काः' इति परिभाषया । तन्नियमश्च लीलावत्याम्—
'एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः ।
अर्बुदमब्दं खर्वनिखर्वमहापद्मशङ्खवस्तस्मात् ।।
जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तरं संज्ञा ।।' इति ।
एतदग्रेऽप्यङ्कविस्तरस्तुच्छन्दःकौस्तुभेऽष्टमेऽध्याये प्रपञ्चितोऽस्माभिः ॥ ११३ ॥
- सरोजिनी *
प्रस्तुत श्लोक में यह बताया गया है कि भगवती के जो पवित्र तीन सौ नाम
हैं उनके, १५, २०, २१ आदि कितने अर्थ संभावित हैं? इस प्रश्न का उत्तर
देते हुए आचार्य भास्करराय कहते हैं कि इन अर्थों की संख्या निम्न होगी
३२,७६८,०००,०००,०००,०००,०००। ‘लीलावती’ में अङ्कज्ञान प्रकार के
विषय में जो नियम दिये गए हैं वे निम्न हैं—'एकदशशतसहस्रा युतलक्ष प्रयुक्त
कोटयः क्रमशः । अर्बुदमब्दं खर्वनिखर्व महापद्मशांवस्तस्मात । जलधिश्चान्त्यं मध्यं
परार्धमिति दशगुणोत्तरं संज्ञा, ऊपर जो अङ्क लिखे गए हैं उसका नियम यह है—
'चरमाङ्कमारभ्य पूर्वपूर्वाकद्दशगुणिता उत्तरोत्तराङ्काः ।।'
'तिथि' = १५; 'गज' = ८; 'रस' = ६; 'गिरि' = ७; 'अश्विनौ = २;
'राम' = ३; अर्थात् ३, २, ७, ६, ८ के आगे १५ बिन्दु = ३२,७६८,
०००,०००,०००,०००,०००। भास्करराय इसका रहस्य समझाते हुए कहते हैं
कि—'एतेषु विंशति संख्याकेष्वर्थेषु ककारस्य ककाररूपेत्यर्थवर्णन दशायामेकारस्य-
कारूपेति, ईकारस्येकाररूपिणीत्येवार्थो वर्णनीय इति न नियमः, ककाररूपैकाक्षरी
ईप्सितार्थप्रदायिनीत्यप्यर्थस्य सुवचत्वात् । एवं चात्र पंचदशाक्षराणि विलिख्य प्रत्यक्ष-
शिरसि विंशत्यकान् दत्वा परस्परं हनने चरमाक्षरे या संख्या निष्पद्यते तामेपाह—
'तिथिमितबिन्दु... नामैकदेशस्य' ।। ११३ ।।
अथ शाक्तार्थो द्विविधः—अवयवार्थः शक्तिसमूहार्थश्चेति । तत्रावयवार्थो नाम
देव्या अवयवानां वर्णनम् । तदाह—
वाक्कामाशक्तिकूटैरवयवशो विग्रहो मातुः ।
प्रतिपाद्यो ऽत्रा कण्ठादा मध्यादा च पादाग्रात् ।। ११४ ।।
शाक्तार्थगत अवयवार्थ का स्वरूप
यहाँ (इस विद्या में) माता (भगवती त्रिपुरसुन्दरी) का शरीर वाक्तत्त्व के द्वारा
(किरीट के शीर्ष भाग से) गले तक, कामतत्त्व के द्वारा (गले से) कटि भाग तक