सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 449, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 449

द्वितीयोऽंशः ३४७
(देवी के नाम एवं मंत्राक्षर )
कल्याणी, एकाक्षरी, ईशित्री, ललिता (आदि) देवी के तीन सौ नामों का
तात्पर्य (अर्थ) मन्त्र के उन-उन (मन्त्र के घटक) अक्षरों द्वारा व्यक्त होता है ।
(देवी के) नाम के एक देश (अंश) के ग्रहण द्वारा (देवी के) समस्त नाम का
ग्रहण होना लोकप्रख्यात है । अतः नाम का सम्पूर्ण अर्थ 'नामैकदेशार्थ' (नाम के
एक देश का अर्थ) है । (अर्थात् नाम का सम्पूर्ण अर्थ नाम के अंश का अर्थ
है) ॥ १११-११२ ॥

  • प्रकाश *
    अत्र हि 'ककाररूपा कल्याणी' इत्यादिना पञ्चदशाक्षर्या एकैकनामाक्षरमादितः
    कृत्वा तादृशनामानि प्रत्यक्षरं विंशतिरुक्तानि । तानि च त्रीणि शतानि भवन्ति । तानि च
    मन्त्राक्षराणामर्थप्रकाशनार्थं प्रवृत्तानि । तथा च ककारस्य 'ककाररूपा कल्याणी
    कल्याणगुणशालिनी' इत्यादयो विंशतिरर्थाः । एवमेकारादीनामपि पार्थक्येन
    विंशतिरर्थाः । तेषु च सर्वेषु प्रसिद्धकोशव्याकरणादिरीत्या शक्तेरसम्भवादेतद्बलादेव
    कल्पनस्यार्थापत्तिशरणत्वात्, अन्यथानुपपत्तिरूपार्थापत्तेश्च 'नामैकदेशे नामग्रहणम्' इति
    न्यायेन परिक्षयात्, तेषां नाम्नामेकदेशा एव ककारादय इति कल्प्यते । अत एवाचार्य-
    भगवत्पादैः 'शिवः शक्तिः कामः' इत्यादीनामुद्धृतवर्णानां नामावयवत्वं स्पष्टमुक्तम्
    'भजन्ते वर्णास्ते तव जननि नामावयवताम्' इति सौन्दर्यलहर्याम् । अस्ति हि नामैकदेशे
    नामग्रहणम् 'भीमो भीमसेनः' 'सत्या सत्यभामा' 'गुरुर्लघुर्गलौ च' इत्यादौ 'अनुष्टुभि,
    यज्ञायज्ञीये, उद्गीथोपान्त्यम्, गायत्रीषु, जराबोधीये, रथन्तरे, प्रतिहारादिः' इति वक्तव्ये
    'ष्टुभि, ज्ञीये, गीथोपान्त्यम्, त्रीषु, बोधीये, तरे, हारादिः' इत्यादिप्रयोगाः सामवेदिनां
    फुल्लसूत्रे च बहुलमुपलभ्यन्ते । तत्र च ककारादिनाम्नामानन्त्यात् ककारस्या-
    प्यनन्तार्थकत्वे प्राप्तेऽय नियम एत एवार्था नान्य इति । तेषु च प्रत्यक्षरं प्रथमनाम्नां
    नामार्थशब्दरूपार्थाभ्यां पौनरुक्त्यादिहैकोनविंशतिरेवार्था विवक्षिताः । यथा च
    नामैकदेशार्थो ऽप्येकोनविंशतिविधः संपन्नः । अत्र च पञ्चदशसंख्यासु विंशिकासु
    प्रथमनामानि परित्यज्य द्वितीयनामान्युट्टङ्कितानि, प्रथमनाम्नां पूर्वतनार्थवर्णनेन
    लब्धत्वात् ॥ १११-११२ ॥
  • सरोजिनी *
    'कल्याणी', 'पंचदशी' के आद्यक्षर ककार के द्वारा देवी के जो कल्याणी,
    एकाक्षरी, ईशित्री, ललिता आदि तीन सौ नाम हैं वे सङ्केतित हो जाते हैं ।१
    'ककाररूपा कल्याणी कल्याणगुणशालिनी' आदि बीस अर्थ हैं । इस प्रकार 'क'
    'ए' आदि सभी मंत्राक्षरों के अपने-अपने बीस अर्थ हैं । 'कोश' व्याकरण आदि के
    द्वारा इनका इतने अर्थ निकाल सकना तो असंभव है अतः 'नाम्नामेकदेशापत्तेःश्च
    नामैकदेशे नाम ग्रहणम्' के नियमानुसार ककारादिक मंत्राक्षरों के अर्थों का निर्णय
    करना चाहिए ।२ आचार्य शङ्कर ने भी— "शिवः शक्तिः कामः क्षितिरथ रविः
    १-२. भास्करराय — 'प्रकाश'