वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 446, कुल 530 में से
संदर्भ में पढ़ें३४४ वरिवस्यारहस्ये
'अगम्ये'—शब्दशक्यतावच्छेदकाभावयुक्त । 'इन्द्रियागम्ये'—घ्राणजादिषड्विध
प्रत्यक्षाविषयमें । 'यतोवाचो निवर्तन्ते अप्राप्य मनसा सह' 'अशब्दमस्पर्श मरूप
मव्ययम्' आदि कहकर वेदों द्वारा ब्रह्म को अगम्य कहा गया है । 'तत्त्वातीत' =
शिवादिक्षित्यन्त षट्त्रिंशत्तत्त्वा न्यतिक्रान्त ।। 'महत्तरे' = महीयान, महान ।
'अणुत्तरे' = 'अणोरणीयान् महतो महीयान्' । आकाशादि के जनक होने के कारण
महत्तर ।। स्थूल दृष्टि का अविषय होने के कारण ब्रह्म को 'अणोरणीयान' कहा
गया है । 'विश्वाभिन्ने' = परमात्मा का परिणाम होने के कारण जगत् परमात्मा का
परिणाम है । 'चिदानन्दे' = चिति = स्वप्रकाश । 'आनन्दे' = सुखैकस्वरूप । 'परे
ब्रह्मणि स्वात्मा नियोज्यः ॥' सकल तत्त्वमूलभूतत्वादयं महातत्त्वार्थ इत्युच्यते ॥१
अथ नामार्थशब्दरूपार्थमाह—
तत्तद्वर्णार्थेयं तत्तद्वर्णस्वरूपेयम् ।
इति तु श्रीविद्याया नामार्थः शब्दरूपार्थः ॥ ११० ॥
('नामार्थ' एवं 'शब्दरूपार्थ' का स्वरूप)
यह 'श्रीविद्या' उन-उन (अपने घटक) अक्षरों द्वारा अभिव्यक्त अर्थ से अभिन्न
है । यह (श्रीविद्या) उन-उन (स्वघटक) वर्णों से अभिन्न स्वरूप वाली है ।
इस प्रकार श्रीविद्या के (ये क्रमशः) 'नामार्थ' एवं 'शब्दरूपार्थ' (प्रतिपादित किये
गये) हैं ॥ ११० ॥
- प्रकाश *
तत्तद्वर्णशब्देन ककारादयो ऽष्टपञ्चाशद्वर्णाः सप्तत्रिंशद्वर्णाः पञ्चदश वर्णा वा
गृह्यन्ते, तेषां च सर्वेषां ब्रह्मवाचकत्वेन 'सहस्रशीर्षा पुरुषः' इत्यादिवत् सामानाधि-
करण्येनान्वये सिद्धे 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति' इति कात्यायन-
वचने भवन्तीपर इत्यस्य लट्पर इति व्याख्यानात् 'अस्ति' इति शेषपूरणेन वाक्यार्थो
वर्णनीयः । एवं सति नामार्थस्त्रिविधः संपद्यते—अष्टपञ्चाशन्नामकः सप्तत्रिंशन्नामकः ।
पञ्चदशनामकश्चेति, अत्र पक्षत्रये ऽपि ककारादीनामन्यतमस्य ब्रह्मवाचकत्वात् । अन्येषां
पुनरुक्तानामकारककारादीनां वैयर्थ्यपरिहारस्तु 'अकारो ब्रह्मविष्णुवीशकमठेष्ष्वङ्गुणे
रणे' इत्यादिरीत्या विश्वप्रकाशकोशे तत्तदक्षराणामनेकार्थवाचकत्वोक्तेस्तेषु योग्यतामनु-
सृत्यार्थवर्णनेन कार्यः । 'शतकृत्वो ऽपि पथ्यं वदितव्यम्' इति न्यायाच्च एतादृशस्थलेषु
न पौनरुक्त्यं दोषः । एवं च सर्वेषामक्षराणां तत्तद्वाचकत्वेन रूढ्या वा प्रत्यक्षरं
सोर्लोपस्यावश्यकत्वेन प्रतिपदिकमात्रावशेषाद्वोपासकजनेषु प्रसिद्धत्वाद्वा संभाव्यत्वाद्वा
परिपक्वार्थरूपत्वाद्वा नामार्थ इति संज्ञा, 'नामधेयं च नाम च' इति कोशात् ।
यद्यप्याथर्वणे गोपथब्राह्मणे 'ओंकारं पृच्छामः को धातुः किं प्रातिपदिकं किं
नामाख्यातम्' इत्येव प्रयोगः, तथा ऽपि 'सत्त्वप्रधानानि नामानि' इति यास्कप्रयोगान्नाम-
पदेनापि प्रातिपदिकाभिधानसंभवात्, अव्ययगणे 'नाम प्रकाश्यसंभाव्यक्रोधोपगम-
१. 'प्रकाश' (१०८-१०९)