वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 445, कुल 530 में से
संदर्भ में पढ़ेंद्वितीयोऽंशः ३४३
अथ महातत्त्वार्थमाह—
वागिन्द्रियैरगम्ये तत्त्वातीते महत्तरे ऽणुतरे ।
व्योम्नो ऽप्युपरि स्थितिमति विश्वाभिन्ने चिदानन्दे ॥ १०८ ॥
ब्रह्मणि परे नियोज्यः स्वात्मा तद्भेदसंप्राप्त्यै ।
एष महातत्त्वार्थः श्रीविद्यायाः शिवनोक्तः ॥ १०९ ॥
(श्रीविद्या के 'महातत्त्वार्थ' का स्वरूप)
वाणी (मन, बुद्धि, चित्त, अहङ्कार, इन्द्रियों) आदि द्वारा अप्राप्य, तत्त्वों (३६
तत्त्वों) से परे, महान से भी महान्, सूक्ष्म से भी सूक्ष्म, व्योम से भी ऊर्ध्व स्थित,
जगत् से अभिन्न, चित् एवं आनन्दस्वरूप परब्रह्म में स्वयं को उस (ब्रह्म के साथ)
अभेद की प्राप्ति के लिए नियुक्त करना चाहिए—यह श्रीविद्या का महातत्त्वार्थ शिव
द्वारा कहा गया है ॥ १०८-१०९ ॥
- प्रकाश *
वागगम्ये शब्दशक्यतावच्छेदकाभाववति; इन्द्रियागम्ये घ्राणजादिषड्विधप्रत्यक्षा-
विषये; 'यतो वाचो निवर्तन्ते, अप्राप्य मनसा सह', 'अशब्दमस्पर्शमरूपम्' इत्यादि-
श्रुतेः । न च सर्वथा ज्ञानाविषयस्यालीकतापत्तिः, शब्दैर्लक्षणया गम्यत्वात्, शाब्द-
प्रत्यक्षविषयत्वाच्च । तत्त्वातीते शिवादिक्षित्यन्तषट्त्रिंशत्तत्त्वान्यतिक्रान्ते । महत्तरे महतो
महीयसि । अणुतरे, अणोरणीयसि । आकाशादिजनकत्वान्महत्त्वमुपचर्यते, स्थूलदृष्ट्य-
विषयत्वादणुत्वमपि तथा; न पुनः परिमाणविशेषः, तत्र तदभावात् । अत एव
'अणोरणीयान् महतो महीयान्' इति श्रुतिरप्यविरोधेन सङ्गच्छते । व्योम्न उक्तलक्षणा-
दुपरि स्थितिमति, उपासनार्थं कल्पितस्थानविशेषेणोपलक्षिते । विश्वाभिन्ने, परिणामि-
त्वात् । चिति स्वप्रकाशे । आनन्दे सुखैकस्वरूपे । परे ब्रह्मणि स्वात्मा नियोज्यः । तेन
सहाभेदस्य स्वाज्ञानवशादलब्धप्रायस्य संप्राप्त्यै, 'ब्रह्म वेद ब्रह्मैव भवति' इति श्रुतेः ।
सकलतत्त्वमूलभूतत्वादयं महातत्त्वार्थ इत्युच्यते ॥ १०८-१०९ ॥ - सरोजिनी *
'योगिनीहृदय' में 'महातत्त्वार्थ' का स्वरूप इस प्रकार निरूपित किया गया
है—
“महातत्त्वार्थ इति यत्तच्च देवि । वदामि ते । निष्कले परमे सूक्ष्मे निर्लक्ष्ये
भाववर्जिते । व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे । विश्वोत्तीर्णे विश्वमये तत्त्वे
स्वात्मनि योजनम् ॥” 'योगिनीहृदय' के अनुसार—निष्कल, परमसूक्ष्म, निर्लक्ष्य,
भाववर्जित, व्योमातीत, प्रकाशानन्दविग्रह, विश्वोत्तीर्ण एवं विश्वमय परम् तत्त्व में
स्वात्मनियोजन ही महातत्त्वार्थ है ।
अमृतानन्दनाथ कहते हैं— “परविद्याप्रदायक परमशिवरूपे निजगुरु प्रबोधित-
निर्मल स्वभावस्वात्मनि योजनं तदेकतानुप्रवेशो महातत्त्वार्थ इत्यर्थः ॥”