सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 419, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 419

द्वितीयोंऽशः ३१७

  • प्रकाश *
    सूर्यस्य कलास्तपिन्यादयो द्वादश ककारादिभिर्द्वादशभिरानुलोम्येन भकारादिभिः
    प्रातिलोम्येन द्वादशभिश्च युक्ताः । चन्द्रस्य कलाः षोडशामृतादयः षोडशभिः
    स्वरैर्युक्ताः । अग्नेः कला दश धूम्रार्चिरादयो यकारादिभिर्दशभिर्वर्णैर्युक्ताः । एवं
    पञ्चाशद्भरक्षरैरभिन्ना कुलकुण्डलिनी बिसतन्तुतनीयसी तडित्कोटिप्रख्या । मूलाधार-
    स्थपद्मशृङ्गाटात् मूलाधारस्य कर्णिकायां विद्यमानाच्छृङ्गाटात् त्रिकोणादुपरि सार्धत्रि-
    वलयाकारेणाधोमुखी समुपविष्टा योगमर्यादया योगिभिरूर्ध्वमुखतयोत्थाप्यते । सा मूला-
    धारानाहताज्ञाचक्रेषु विद्यमानानि वह्निसूर्यसोममण्डलानि भिनत्ति । १०३-१०४ ॥
    ‘द्वादशान्तं ललाटोर्ध्वं कपालोर्ध्ववसानकम् ।
    द्व्यङ्गुलोर्ध्वं शिरोदेशं परं व्योम प्रकीर्तितम् ॥
    इत्युक्तलक्षणे व्योमनि विद्यमानस्य चिच्छशिमण्डलस्याधोमुखसहस्रारकर्णिका-
    रूपस्य मध्ये स्थितया अकुलकुण्डलिन्या सङ्गम्य ततोऽमृतपूरं स्रावयित्वा डाकिन्यादि-
    मण्डलान्याप्लावयन्ती स्वयमपि तत्पानेन मत्ता भूत्वा पुनस्तेनैव सुषुम्नामार्गेण परावृत्य
    स्वस्थाने सुखं स्वपिति । सर्वमेतद्योगिनामनुभवगम्यम् । योगशास्त्रमर्यादाज्ञानमात्रवतां तु
    परोक्षज्ञानगोचरो गुरुमुखादेव विविच्य बोद्धव्यमिति नेह विविच्यते ॥ १०५-१०६ ॥
  • सरोजिनी *
    कुण्डलिनी वर्णात्मिका है अतः अकारादि-क्षकारान्त समस्त वर्ण कुण्डलिनी ही
    हैं—‘अकारादिक्षकारान्त स्वयं परमकुण्डली ।’ ‘वर्णरूपमयी देवी कुण्डली
    परदेवता ।’१ जिस प्रकार समस्त पर्वतालंकृत वनभूमि का आश्रय शेषनाग हैं उसी
    प्रकार समस्त योग-तंत्रों का आधार कुण्डली है—‘‘सशैलवनधात्रीणां यथाऽधारोऽहि-
    नायकः । सर्वेषां योग-तन्त्राणां तथाऽधारोहि कुण्डली ॥’’२
    कुण्डलिनी पृथ्वी मण्डलस्थ मूलाधार में स्थित है और वह साढ़े तीन वलयों
    से वलयित है । वह करोड़ों सूर्यों के समान प्रकाशवाली एवं करोड़ों चन्द्रों के
    समान सुशीतल, स्वयंभूलिङ्ग वेष्टित । निराकार, परब्रह्ममयी, ज्ञानानन्द मुदितमानसा,
    महायोगस्वरूपा, पद्मवनसमुद्भवा, प्रणवाकारा, शब्दविभागमयी एवं तत्त्वस्वरूपा ।
    परावाक्रूपा अचिन्त्य शक्ति है ।
    ‘‘पृथ्वीमण्डलात् सार्द्धत्रिवलयान्वितां रवि कोटिसमप्रभां, चन्द्रकोटिसुशीलतां
    स्वयंभूलिङ्गवेष्टितां निराकारस्वरूपां परब्रह्ममयी' कुण्डलिनीं ज्ञानानन्दमुदितमानसां,
    महायोगस्वरूपां पुरतः स्वयंभूकनक वर्णशीर्षतः पद्मवनसमुद्भवां बहुतरप्रणवानामेक-
    कृतशब्दविभागमयीं तत्त्वस्वरूपाम्’’३—‘त्रिपुरासमुच्चय’ में इसका स्वरूप इस प्रकार
    प्रस्तुत किया गया है—‘‘शक्तिः कुण्डलिनीति या निगदिता आईमसंज्ञा । जगन्निर्माणे
    सततोद्यता प्रविलसत्सौदामिनीसन्निभा । शङ्खावर्तनिभां प्रसुप्तभुजगाकारां जगन्मोहिनीम् ।
    १. कामधेनु तन्त्र २. हठयोगप्रदीपिका
    ३. तारारहस्य—ब्रह्मानन्दगिरि