वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 415, कुल 530 में से
संदर्भ में पढ़ेंद्वितीयोंऽशः ३१३
संशयः ।।'' 'गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । अतएव महेशानि साक्षाद् ब्रह्ममयो
गुरुः ।।''१
'देवतापूजनार्थं च यद्वा पुष्पादिकंप्रिये । तत्सर्वं गुरुवेदत्वा पूजयेन्नगनन्दिनि ।'२
गुरुदेवो हरः साक्षात्तत्पत्नी हर वल्लभा ।'३ गुरुरेफः शिवः प्रोक्तोसोऽहं देवि न संशयः
(गुरुगीता)
२. गुरु एवं विद्या (मंत्र) में अभेद—रुद्रयामल में कहा गया है कि—गुरु की
क्रिया तो पूजा का मूल है एवं महापद है । गुरु का वाक्य ही मूलमंत्र है और गुरु
स्वयं ब्रह्म है—'गुरोः क्रिया महेशानि पूजामूलं महत् पदम् । गुरोर्वाक्यं मूलमंत्रं परं
ब्रह्म स्वयं गुरुः ।।४
समस्त विद्याएँ देहस्थ हैं, समस्त देवता देहस्थ हैं, समस्त तीर्थ देहस्थ हैं
किन्तु ये सभी मात्र गुरुवाक्य से ही प्राप्त हो सकते हैं ।५ गुरु ही मंत्र भी है अतः
गुरु एवं विद्या (मंत्र) में अभेद है—'मंत्रोऽपि गुरुरुच्यते ।।'६ 'अतो मंत्रे गुरो देवे न
भेदश्च प्रजायते ।।७
'नीलतंत्र' में गुरु को मंत्र (विद्या) का मूल कहा गया है—'धर्ममूलं गुरोर्मूर्तिः
पूजा मूलं गुरोः कृपा । मंत्रमूलं गुरोर्वाक्यं तस्मादादौ गुरुं यजेत् ।।''
गुरुमूर्ति = धर्म का मूल । 'गुरुकृपा' = पूजामूल । 'गुरुवाक्य' = मंत्र का
मूल ।।८
ननु गणेशाद्यात्मकत्वज्ञाप्यकः पञ्चाभेदः कथमुपपद्यते, गणपदस्य समुदायार्थ-
कस्य समुदायिसापेक्षत्वेन समुदायिनां देवताक्षररेखाणां भेदे तद्भेदस्यावश्यकत्वात्,
नक्षत्रत्वादेरपि संख्यामात्रस्यानुगमकत्वे ऽपि संख्यावतां विरुद्धधर्माधिकरणत्वेन भेदस्य
संख्यावतां संमतत्वेन भिन्नभिन्नत्वात्; तेन च नैकस्यापि धर्मस्याभेदव्यापकतेति कथं
तज्ज्ञाप्यकाभेदः साध्यत इति चेत्; मैवम्; वचनबलादेव समुदायिनां संख्यावतां
चाभेदस्य सिद्धत्वात्, उपक्रमादिभिर्निर्णीततात्पर्यकस्य शब्दस्य प्रत्यक्षादिनिखिल-
माणेभ्योऽपि बलवत्तायाश्चन्द्रप्रादेशिकत्वभ्रमादावन्यत्र चौपनिषदैर्बहुतरं साधितत्वात् ।
किं च, स्वाश्रयसमानजातीयाश्रितस्वातिरिक्तस्वव्यापकसंख्याविरहसहकृतस्वस्वरूप-
संख्यामात्रत्वमप्यभेदसाधकमेव, बाधकाभावात् । स्वपदानि नवादिसंख्यारूपाणि । तेन
विद्या देवतास्वरूपादभिन्ना नवसंख्यामात्राश्रयत्वाद्देवतास्वरूपवदित्यादयः पृथक् पृथक्
प्रयोगाः । अत एवैकत्वसंख्यामात्राश्रयत्वादाकाशकालदिगीश्वराणामभेदो दीधितिकृतः
संमतः । इदं चानुमानमागमसहितमेव प्रमाणं विषयप्रमात्वदार्ढ्यसंपादनाय । तेन न
घटत्वपटत्वादेरभेदापत्तिः । तदेतत् सर्वमभिसंधायोपसंहरति-
१-२. महिषमर्दिनी तन्त्र ३. रुद्रयामल
४. रुद्रयामल ।। शिव ही जगत् के प्रथम आदि गुरु, जगद्गुरु हैं—कैलास
शिखरासीनं देवदेवं जगद्गुरुम् । (ज्ञानसंकलिनी तन्त्र)
५. ज्ञानसंकलिनी तन्त्र ६-७. गुरुगीता
८. नीलतन्त्र