सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 381, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 381

इत्येकस्मिन्नेव श्लोके बिन्दुत्रयनादत्रययोरर्थवर्णनेन बिन्दुत्रयस्य सप्तत्रिंशत्संख्या-
पू्यर्थमुल्लेखो नादत्रयस्य तु त्याग इत्यत्र तु स्पष्टं पक्षपात एव मूलमिति । एतेन
कादिविद्यायां सप्तत्रिंशत्तत्त्वसिद्ध्यर्थं द्वितीयतृतीयाक्षरयोः संध्यक्षरत्वात् प्र तिस्विकं
द्व्यात्मकत्वेन गणनाक्लेशः प्राचामपास्तः; हृल्लेखास्वपि तथापत्त्या 'प्रकृतबाधका-
पादकश्च । तस्मान्नादत्रयमेलनेनैव सप्तत्रिंशत्ता । स्पष्टमेतद्योगिनीहृदये 'हृल्लेखात्रय-
संभूतैस्तिथिसंख्यैस्तथाक्षरैः' इत्यसकृत्प्रतिहृल्लेखं पञ्चनामक्षराणां गणनात् ।
तस्माद्योगिनीहृदये संप्रदायार्थप्रकरणं सर्वं कादिविद्यायामेव स्वरसमिति निष्पक्षपात
कृतमतयो विदांकुर्वन्तु । अयमत्र निष्कर्षः—तत्तदक्षरैर्वाच्यान् लक्ष्यांश्च पदार्थानुद्दिश्यै-
कादशस्वरेण तत्त्वातीतब्रह्माभेदो विधीयते । एवं विद्यावयवाक्षरसमूहवाच्यपदार्थ-
समुदायात्मकत्वात् 'विश्वं विद्याभिन्नम्' इत्यपि विधीयते । भावार्थे हि शिवशक्ति-
जन्यत्वज्ञाप्यकशिवशक्त्यभेदविधेयको विद्याजगदुभयोद्देश्यक एको बोधः ।
विश्वजनकजन्यत्वज्ञाप्यकविश्वाभेदविधेयको विद्योद्देशकश्चैकः । इह तु विद्योद्देश्यको
विश्वान्तर्गतयावत्पदार्थप्रातिस्विकवाचकाक्षरैकघटितत्वज्ञाप्यकविश्वाभेदविधेयक एकः,
विश्वोद्देशकविद्याभेदविधेयकश्चान्यो बोध इति भेदः ॥ ८० ॥

  • सरोजिनी *
    ‘सप्तत्रिंशत्पद’—व्योम बीज पञ्चक, कामकला चतुष्टय चन्द्रबीजद्वय, रेफ, भू
    बीज, क्रोधीश, बिन्दु, नादत्रय, श्रीकण्ठदशक, एकादशस्वर
    ‘षट्त्रिंशत्तत्त्व’—शिव, शक्ति, सदाशिव, ईश्वर, शुद्धविद्या, माया, कला, विद्या,
    राग, काल, नियति, पुरुष, अहङ्कार, बुद्धि, मन, श्रोत्र, त्वक्, चक्षु, जिह्वा, घ्राण,
    वाक्, पाणि, पाद, पायु, उपस्थ, शब्द, स्पर्श, रूप, रसं, गंध, आकाश, वायु,
    तेज जल एवं पृथ्बी ॥
    १. ‘बिन्द्वार्थ’ = शिव, शक्ति, शुद्धविद्या प्रकृत्यात्मक
    २. ‘नादार्थ’ = सदाशिवादिपुरुषान्त नौ ।
    ३. ‘हकारादेरर्थ’ = शब्दादिक, आकाशादिक, श्रोत्रादिक, .वागादिक पाँच-पाँच
    की समष्टि ॥
    ४. ‘श्रीकण्ठार्थ’—अहङ्कारादित्रितय ककारत्रय
    ५. ‘एकादश स्वर’—तत्त्वातीत पद ॥
    “स्वर व्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी । ┐
    सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी । ├ सप्तत्रिंशत्
    तत्त्वातीतस्वभावा च विद्यैषाभाव्यते मया ॥” ┘
    ‘तत्त्वातीत’—“अज्व्यञ्जनबिन्दुत्रयसमष्टिभेदैर्विभाविताकारा । षट्त्रिंशत्तत्त्वात्मा
    तत्त्वातीता च केवलाविद्या ॥”
    १. प्रत्युत बाधक