सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 380, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 380

२७८ वरिवस्यारहस्ये
वाच्यम्, कूटानां पार्थक्येनोच्चारणे स्वरपरत्वान्मिलित्वोच्चारणे तु बिन्द्वादि-
नवकस्योत्तरकूटे प्रवेशविधानेन हकारादिपूर्वत्वाभावात् । वस्तुतस्तु, हलत्वमेव हि
व्यञ्जनत्वम् । कथमन््यथा 'हलो ऽनन्तराः संयोगः' इति सूत्रोक्ता संयोगसंज्ञा 'हंसः'
इति सकारे स्यात्? तदभावे च हकारीयाकारे 'संयोगे गुरु' इति सूत्रेण गुरुसंज्ञा न
सिध्येत् । इष्टा हि सा । तदेतच्छन्दःशास्त्रीये 'ध्रादिपरः' इति पिङ्गलसूत्रे छन्दोभास्करे
प्रपञ्चितमस्माभिः । तथा च 'संयोगादि' इति प्रातिशाख्यसूत्रेण संयुक्ताक्षरादि-
मव्यञ्जनस्य पूर्वाङ्गत्वं विदधतैव चारितार्थ्यात् 'अनुस्वारः—' इति पृथग्योगो व्यर्थः ।
न ह्यवसाने स्वरे वा परे लोकवेदयोरनुस्वारः क्वापि दृश्यते, येन तत्सार्थक्यं भवेत् ।
तस्मात् पृथक्सूत्रकरणस्य श्रीविद्यानुसार एव विषय इत्यवश्यं वक्तव्यम् । तेन च
कामकलानामेव बिन्दवो ऽङ्गानि, नादस्तु द्वितीयतृतीयस्वरवद्व्यञ्जनाङ्गक एव स्वरो
भविष्यतीति दिक् । अयं चाङ्गाङ्गिभावः 'चतुर्विंशत्यक्षरा गायत्री' इत्यादौ वेदे
लौकिकच्छन्दः सु प्रकृतेऽपि पञ्चदशत्वषोडशत्वाद्युपपत्त्यर्थमुपयुज्यते, अङ्गाङ्गिनोर-
भेदविवक्षया तदभिन्नप्रधानाक्षरगणनयैव संख्यापूर्तेरावश्यकत्वादिति वस्तुस्थितिः ।
तदपवादाय 'स्वरव्यञ्जनभेदेन' इत्युक्तम् । अङ्गाङ्गिनोर्भेद एव प्रकृतार्थे कार्यों न
पुनरभेदो विवक्षणीय इत्यर्थः । हादिविद्यायां हि द्वितीयतृतीयक्षरयोरपि सव्यञ्जनकत्वेन
षष्टिरक्षराणि । अर्धचन्द्रादेरेकवर्णत्वाङ्गीकारेऽपि तावदेकोनचत्वारिंशत् । बिन्दूनामपि
नादेषु मेलनेनैकवर्णत्वस्वीकारे तु षट्त्रिंशत् । शक्तानि तु तत्र चत्वारिंशत्,
व्योमबीजषट्कं मायात्रयं कारणबिन्दुरेको रेफचन्द्रबीजभूबीजक्रोधीशबिन्दुनादानां त्रयं
त्रय द्वादश श्रीकण्ठा इत्येव तदर्थोपपादनादि न कथञ्चन सप्तत्रिंशत्ता संपद्यते । यद्यपि
स्वराः पञ्चदश व्यञ्जनान्यष्टादश बिन्दवस्त्रयः सर्ववर्णसमष्टिरेकेति सप्तत्रिंशत्ता
तदुपासकैरूपपाद्यते, यदुक्तं कामकलाविलासे—
'अज्य्वञ्जनबिन्दुत्रयसमष्टिभेदैर्विभाविताकारा ।
षट्त्रिंशत्तत्त्वात्मा तत्त्वातीता च केवला विद्या ॥
इति; तथापि संख्यायाः पृथङ्निवेशित्वस्वाभाव्येन व्यष्टिवेषेण गणितस्य पुनर्गाणनं
गौणम्, पञ्चदश्यां षोडशीत्वापादकं च । किं च, अङ्गाङ्गिनोरभेदस्य लोकसिद्धस्याप-
वादाद्य भेदेनेति कण्ठरवेणोक्तेर्लोकसिद्धभेदानां पञ्चदशानां वर्णानामभेदेन गणनस्य
कुतो, लाभ इति विचार्यम् । यद्यपि भेदपदम्य 'संभेदः सन्ध्युसङ्गमः' इत्यादौ सङ्गमार्थे
प्रसिद्धत्वादिह स्वरव्यञ्जनानां सर्वेषां मेलनेनेत्यप्यर्थः सुवचः; तथापि भेदपदस्य
वृत्तिकिलेशः, समित्यनुपसृष्टस्य तादृशार्थावाचकत्वं च । किं च, यथा तावत् 'व्याप्ता
पञ्चदशार्णैः सा' इत्यनेन सामान्यतः पञ्चदशसंख्याकाक्षर- कत्वमुक्त्वा तदुपपादनाय
तदग्रिमग्रन्थे 'पञ्चभिश्च तथा षड्भिः' इति विशिष्य कथनम्, तथैव 'स्वरव्यञ्जनभेदेन
सप्तत्रिंशत्प्रभेदिनी' इत्यादिना सामान्येन सप्तत्रिंशत्संख्याकाक्षरक्त्वं प्रतिज्ञाय
त