सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 379, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 379

वाच्यम्, एकत्र शक्तिः परत्र लक्षणेति सुवचत्वात् । न च युगपद्वृत्तिद्वयविरोधः,
एतद्वचनबलादेव सप्तत्रिंशत्त्वस्य शक्ततावच्छेदकत्वाङ्गीकारेण पूर्ववत् तस्यादोषत्वात्,
केवलहकारस्यैव व्योमवाचकत्वादिना प्रमितत्वेन तद्विरोधस्याद्भावने तु वृत्तिद्वयविरोधे
ऽकिंचित्करत्वस्य सुवचत्वाच्च; प्रमाणप्रमितत्वाविशेषादापततोऽनेकार्थत्वस्यापि हर्यादि-
पदवददोषत्वाच्च । क्लृप्तशक्तिपरित्यागस्तु न सर्वथा प्रमाणिकः । ननु प्रथमेऽंशे
विद्यायामष्टपञ्चाशद्वर्णा उक्ताः, कथमिह सप्तत्रिंशत्त्वेन गण्यन्त इति चेत्, सत्यम् । न
पुनरत्र वर्णगतेयं संख्या कण्ठरवेणोक्तवचने श्रूयते येनैवमुच्येत । श्रूयमाणं संख्यामात्रं तु
पदनिष्ठत्वेनाप्युपपन्नम्, अर्धचन्द्रादिवर्णाष्टकस्यैकपदत्वात्, चतुरवयवककामकला-
वन्नादस्याष्टावयवकैकवर्णत्वाङ्गीकारेऽ