वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 378, कुल 530 में से
संदर्भ में पढ़ें२७६ वरिवस्यारहस्ये
'रुद्रो वा एष यदग्निः ॥' (श्रुति) ॥
'स्वच्छन्दसंग्रह' में कहा गया है कि—“तेन पुरुषनियति कालरागविद्याकला
मायानां परिग्रहः पुरुषादिकमायान्तं तेजस्तत्वं महेश्वरि” । नादत्रितय = शान्ति, शक्ति
एवं शम्भू ।
“शान्तिः प्रकृतिः शुद्धविद्या च । अर्धचन्द्राद्युन्मनान्तं वर्णाष्टकं नादपदेनो-
च्यते ॥” (भास्करराय) ॥
‘नादत्रितयबोधनाः' = नादत्रितयमेव बोधनं येषां ते ॥”
बिन्दुभिस्त्रिभिरुच्यन्ते रुद्रेश्वरसदाशिवाः ।
शान्तिः शक्तिश्च शंभुश्च नादत्रितयबोधनाः ॥
एवं सप्तत्रिंशत्संख्याकपदैर्महाविद्या ।
षट्त्रिंशत्तत्त्वानां तत्त्वातीतस्य चाभिधात्रीयम् ॥ ८० ॥
(महाविद्या एवं सैतिस तत्त्वों में अभेदात्मकता का प्रतिपादन)
इस प्रकार सैतिस पदों द्वारा यह महाविद्या (विभिन्न) छत्तीस तत्त्वों एवं
(सैतिसहवें) तत्त्वातीत की अभिधात्री है ॥ ८० ॥
- प्रकाश *
एवमित्यस्यानन्तरोदीरितश्लोकषट्कोक्तरीत्येत्यर्थः । तत्र हि व्योम-बीजपञ्चकम्,
कामकलाश्चतस्रः, चन्द्रबीजे द्वे, रेफभूबीजक्रोधधीशबिन्दुनादास्त्रयस्त्रयः, श्रीकण्ठ-
दशकम्, एकादशः स्वर एकः, इति संहत्य सप्तत्रिंशत् पदान्युपपादितानि । तेषां च
तत्त्वानि षट्त्रिंशत्तत्त्वातीतं ब्रह्मैकमित्यर्थः । तानि च यथा—शिवः, शक्तिः, सदाशिवः,
ईश्वरः, शुद्धविद्या, माया कला, विद्या, रागः, कालः, नियतिः, पुरुषः, प्रकृतिः,
अहङ्कारः, बुद्धिः, मनः, श्रोत्रम्, त्वक्, चक्षुः, जिह्वा, घ्राणम्, वाक्, पाणिः, पादः,
पायुः, उपस्थः, शब्दः, स्पर्शः, रूपम्, रसः, गन्धः, आकाशः, वायुः, तेजः, आपः,
पृथिवी । एतेषां स्वरूपमुत्पत्तिक्रमश्च सौभाग्यसुधोदये द्रष्टव्यः, विस्तरभयान्नेह लिख्यते ।
तत्र शिवशक्तिशुद्धविद्याप्रकृतयो बिन्दर्थाः । सदाशिवादिपुरुषान्ता नव नादार्थाः ।
शब्दादय आकाशादयः श्रोत्रादयो वागादयश्च पञ्च-पञ्च हकारादेरर्थाः । अहङ्कारादित्रयं
तु ककारत्रयस्य श्रीकण्ठानां वार्थः । एकादशस्वरस्य तत्त्वातीतमर्थ इति विवेकः ।
यद्यपि हकारादेः शब्दाद्यर्थकत्ववदिन्द्रियाद्यर्थकत्वं नोक्तम्, तथापि
'स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदिनी ।
सप्तत्रिंशत्प्रभेदेन षट्त्रिंशत्तत्त्वरूपिणी ।
तत्त्वातीतस्वभावा च विद्यैषा भाव्यते मया' ॥
इति वचनबलात् तत्तदर्थकत्वमवश्यकल्पनीयम् । न च सप्तत्रिंशतो वर्णानां
सप्तत्रिंशति तत्त्वेषु क्रमेण शक्तिरस्त्विति वाच्यम्, हकारादौ क्लृप्तशक्तिपरित्यागस्य
शक्त्यन्तरस्वीकारस्य चापत्तेः । न च भवत्पक्षे ऽप्येकस्यानेकार्थकत्वं दोष इति