सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 376, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 376

२७४ वरिवस्यारहस्ये
'यदेकादशमाधारं बीजं कोणत्रयात्मकम् ।
ब्रह्माण्डादि कटाहान्तं जगत् . . . . . ॥'
इति प्रयोगाच्च योगरूढो ऽयं शब्दः । तस्य च शुद्धयोगापेक्षया परत्वमस्त्येव । स
च प्रकृत एको ऽपि दृश्यमानो बहुरूपः परिणमते । उक्तं च कादिमते—
'यदेकादशमाधारं बीजं कोणत्रयात्मकम् ।
ब्रह्माण्डादि कटाहान्तं जगद्यद्यापि दृश्यते ॥'
इति । हादिपक्षे तु शुद्धयौगिकत्वमङ्गीकृत्य श्रीकण्ठपरत्वेनैकादशपदं व्याख्याय
परो द्वादशः पुरुषः परः शिवः, तद्वाचक इति व्याचक्षते । तत्क्लिष्टमिति स्वर इति
विशेषेणाकाख्यावर्तकेन सूचितम् । ननु श्रीकण्ठदशकस्यैकस्मिन्नेव श्लोके प्रति-
संबन्धित्वेन निर्दिष्टस्योपस्थित्या, एकादशो ऽपि श्रीकण्ठ एवेति चेन्न, रूढिप्राबल्ये
तादृशोपस्थितेरप्रयोजकत्वात् । कथमन्यथा ज्ञानार्णवे—
'आद्यं वाग्भवमुच्चार्य कामबीजं द्वितीयकम् ।
कुमार्यास्तु तृतीयं तु त्रिपुरा परमेश्वरी ॥'
इति त्रिपुराचक्रेश्वरीमन्त्रोद्धारः सङ्गच्छताम्? तत्र हि कुमार्याः प्रतिसंबन्धित्वेन
निर्देशे ऽप्याद्यद्वितीयपदाभ्यां मातृकासंबन्धिनावेव प्रथमद्वितीयौ वर्णौ विवक्षितौ,
दक्षिणामूर्तिसंहितादौ 'अं आं सौः' इत्यस्यैव प्रथमचक्रेश्वरीमन्त्रस्योद्धृतत्वात् । अन्यथा
बालाया एव त्रिपुराचक्रेश्वरीत्वमापद्येत । तस्मान्मातृकायामेकादश एवात्र ग्राह्य इति ।
तार्तीयप्रथमस्य पूर्वमभिहितत्वान्नेह पुनरुट्टङ्कनमित्यपि हादिपक्षे सुवचम् । परं तु न तथा
सांप्रदायिकैर्व्याख्यातम् । तथापि कः प्राणवाचको ऽकारः को वा जीववाचक
इत्यनिर्धारणं तत्पक्षे दुरुद्धरम् ॥ ७८ ॥

  • सरोजिनी *
    क + अ, ल् + अ, ह् + अ, स् + अ, क् + अ, ह् + अ, ल् + अ,
    स् + अ, क् + अ, ल् + अ = ये ही १० 'अ' ॥
    पञ्चदशी मन्त्र में द्वितीय एवं तृतीय वर्ण एवं तीन हल्लेखाओं को छोड़कर
    अर्थात् 'क ए ई ल ह्रीं । ह स क ह ल ह्रीं । स क ल ह्रीं' में से द्वितीय वर्ण
    (ए) एवं तृतीय वर्ण (ई) छोड़कर शेष—क, ल, ह, स, क, ह, ल, स, क, ल
    में १० अकार स्थित हैं—
    ('पञ्चदश्यां द्वितीयतृतीय वर्णौ हल्लेखायां च मुक्त्वा अवशिष्टेषु
    [
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन) · पृष्ठ 376, कुल 530 में से · SarvaKosh