सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 374, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 374

२७२ वरिवस्यारहस्ये
५. क—पृथ्वी, ख—जल, ग—अग्नि, घ—वायु, ङ—आकाश ।
६. 'ट' से 'ण'—कर्मेन्द्रियाँ
७. 'त' से 'न'—ज्ञानेन्द्रियाँ ८. य, र, ल, व—राग, विद्या, कला माया ॥
इदानीं वायुजनकानामपि ककाराणामर्थान्तरमस्तीति पूर्वोक्तस्य 'ये ये
यद्यज्जनकाः' इत्यस्यौत्सर्गिकस्य नियमस्यापवादमाह—
ककारत्रयवाच्यास्तु सकलाः प्रलयाकलाः ।
विज्ञानकेवलाश्चेति त्रिप्रकारा उपासकाः ॥ ७७ ॥
(ककारत्रय एवं 'सकल', 'प्रलयाकला तथा 'विज्ञानाकल' की अभेदात्मकता)
सकल, प्रलयाकल एवं विज्ञानाकल (नामक) तीन प्रकार के उपासक
(आराधक, साधक) (मन्त्रगत) ककारत्रय के वाच्य हैं । (अर्थात् ककारत्रय सकल,
प्रलयाकंल एवं विज्ञानाकल के वाचक हैं ।) ॥ ७७ ॥

  • प्रकाश *
    प्रमातारः साधकाः पशव इत्यादिपदाभिधेया उपासकास्त्रिविधाः—अधमा मध्यमा
    उत्तमाश्चेति । त एवाशुद्धमिश्रशुद्धपदैः सकलादिपदैश्च क्रमेण व्यवह्रियन्ते । तत्र
    भेदैकदृष्टयः शिवाहंभावभावनाहीनाः कर्मैकरताः प्रथमाः । सुपक्कमलकर्माणः
    'चितिश्चैत्यं च चैतन्यं चेतनं द्वयकर्म च ।
    जीवः कला शरीरं च सूक्ष्मं पुर्यष्टकं भवेत् ॥'
    इति श्लोकोक्तसूक्ष्मपुर्यष्टकसंबन्धशालिनः कर्मज्ञानमार्गयोः साधारणा द्वितीयाः ।
    निरस्तभेदाः सर्वत्र शिवैकदृष्टयः पूर्णज्ञानिनस्तृतीयाः । एते च स्वच्छन्दसंग्रहे विस्तरेण
    प्रपञ्चिताः । ते त्रयाणां ककाराणां वाच्याः । तदुक्तम्—
    'अशुद्धशुद्धमिश्राणां प्रमातॄणां परं वपुः ।
    क्रोधीशत्रितयेनास्य¹ विद्यास्थेन प्रकाश्यते ॥'
    इति । क्रोधीशः ककारः । न चाकराणां पार्थक्यस्याग्रे वक्ष्यमाणत्वेनैकैक-
    हलात्मका एव हकारककारादयो वाचका वक्तव्याः, तथा च ककारे जश्भावेन
    गत्वापत्तिरिति वाच्यम्; एकहल एव पदत्वेन पदान्तत्वाभावात्, व्यपदेशिवद्भावस्य
    'टकितौ', 'सुप्पिप्तौ' इत्यादिज्ञापकेनानित्यत्वात् ॥ ७७ ॥
  • सरोजिनी *
    ककारत्रय जीवों के वाचक हैं ।
    १. वाग्भव का 'क' २. कामराज कूट का 'क' ३. शक्तिकूट का 'क'—
    तीनों मिलाकर ३ 'क' हैं ।
    १. त्रितयेनात्र