सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 370, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 370

२६८ वरिवस्यारहस्ये
गुणानां गुणिबोधकाक्षरबोध्यत्ववत् तज्जनकाक्षरजन्यत्वस्यापि सत्त्वादभेदः
संभवतीत्याह—
तत्तज्जनकैर्वर्णैस्तत्तत्संख्यैस्तु तद्गुणा जाताः ।
कामकलाभिश्चतसृभिरासीत् स्पर्शश्चतुर्विधो न तु कैः ॥ ७५ ॥
(वर्णों द्वारा गुणोत्पत्ति एवं कामकला द्वारा स्पर्शोत्पत्ति का प्रतिपादन)
उन-उन उत्पादक अक्षरों द्वारा तथा (तद्गत) उन-उन संख्याओं द्वारा (उनके)
वे गुण उत्पन्न हुए हैं । (अर्थात् इनकी संख्या इनके जनक वर्णों की संख्या
के समतुल्य है ।) स्पर्श चतुष्टय तीन कामकलाओं एवं तृतीय ईकार द्वारा उत्पन्न
हुए हैं ॥ ७५ ॥

  • प्रकाश *
    तत्तज्जनकैर्व्योमादिजनकैः । तत्तत्संख्यैः पञ्चादिसंख्याकैः । तद्गुणा
    व्योमादिगुणाः । पञ्चादिसंख्याका इति शेषः । विद्यायां हि मायात्रये हकारत्रयम्,
    मध्यमकूटे हकारौ द्वौ, एवं पञ्चभिर्हकारैः पञ्च शब्दा उत्पन्नाः । अत एव तेषामर्थाः
    शब्दा एव, 'ये ये यद्यज्जनकास्तेषां तेषां त एवार्थाः' इति वक्ष्यमाणत्वात् । उक्तं च
    'व्योमबीजैस्तु विद्यास्थैर्लक्ष्येच्छब्दपञ्चकम्' इति । ननु भावार्थप्रकरणे मध्यमहकारस्य
    विद्यामूलबीजात्मककामकलार्थरूपत्वमुक्तमिति तस्य शक्तिवाचकत्वमेव युक्तं न पुनः
    शब्दलक्षकत्वमिति चेत्; न ह्येकवाचकत्वमपरलक्षकत्वे तन्त्रम्, वृत्तिद्वयविरोधस्य
    परिहृतत्वात् 'गङ्गायां घोषमत्स्यौ' इत्यादौ तस्येष्टत्वाच्च । वस्तुतस्तु, शिवशक्त्यात्मक-
    मूलबीजात्मकावकारहकारौ तु सूक्ष्मतमादप्यत्यन्तसूक्ष्मरूपावित्युक्तम् । इह तु
    वैखरीत्मकस्थूलरूपये रेवार्थान्तरपरत्वमुच्यते । अत एव मध्यप्राणोत्थनेन तादृशसूक्ष्म-
    रूपतां द्योतयित्वा तस्य प्रथारूपो यः स्पन्दः स्थूलात्मिका सृष्टिस्तद्रूपे व्योम्नि हकारे
    स्थितेत्युक्तं न पुनः स्थूलहकार एव शक्तिरिति । उक्तं च 'तेषां कारणरूपेण स्थितं
    ध्वनिमयं परम्' इति । तेषां शब्दानाम् । शब्दसृष्टेः सर्वस्यापीत्यर्थः । कारणं शक्तिः,
    तस्या रूपं सूक्ष्मतमादपि परम् । तादृशेन रूपेणोपलक्षितं सद् ध्वनिमयम् । ध्वन्यभिन्नं
    सत् स्थितं परं परब्रह्मेत्यर्थः । सर्वेष्वपि वर्णेषु वर्णांशध्वन्यंशौ परस्परसंसृष्टौ वर्तेते
    सुवर्णे परस्परसंसृष्टपार्थिवतैजसांशवत्, कत्वादिवर्णधर्माणां तारत्वमन्द्रत्वषड्जत्वादि-
    ध्वनिधर्माणां च सर्ववर्णेष्वनुभूयमानत्वात् । अत एव शारीरकभाष्ये स्फोटनिरासाय
    वर्णानामेव नित्यत्वमङ्गीकर्तुं तेषामेकैकव्यक्तिरूपत्वमुपपाद्य वैलक्षण्यप्रतीतिः सर्वापि
    ध्वन्यालम्बनत्वेनोपपादिता देवताधिकरणे । तथा च मध्यमहकारे ध्वन्यंशः
    परब्रह्मवाचकः, वर्णांशस्तु शब्दलक्षक इति विवेक इति भावः । ये तु हादिविद्या-
    पक्षपातिनो योगिनीहृदयस्य सम्पूर्णतन्त्रस्यापि हादिविद्यायामेव तात्पर्यमिति मन्यमाना
    इहान्यथा व्याचक्षते—'परं षष्ठं हाक्षरं तेषां पञ्चानामपि शब्दानां कारणभूतो यो
    ध्वनिर्नार्दस्तन्मयं तद्वाचकम्' इति, तेषां तत्र ग्रन्थस्वारस्यभङ्गेन क्लृप्ततरं व्याख्यानमेव
    शरणमिति तत्र तत्र स्पष्टीकरिष्यामः । ननु तथा सति वायुजनककाराणामेव
    चतुर्विधस्पर्शजनकत्वस्यावश्यकत्वात् ककाराणां च चतुर्णामभावादनुपपन्नमिद-
    मित्याह—कामकलाभिरिति । महामायायां त्रय ईकारा एकस्तृतीयाक्षररूपश्चेति