वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
पृष्ठ 344, कुल 530 में से
संदर्भ में पढ़ें२४२ वरिवस्यारहस्ये
वीरेन्द्रैः कूटत्रयवाच्यभूतैः 'शिवशक्तिसमष्टिरूपमिथुनेनेकारवाच्यभूतेन चोपलक्षितो
मन्त्रराजो वीरैर्जनितो भावित इत्यर्थः' इति । वस्तुतस्तु, सकलादिनामकास्त्रिविद्या
उपासका वक्ष्यमाणा वीरपदेनोच्यन्ते,
'अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः ।
पराक्रमपरो भुङ्क्ते स्वात्मानमशिवापहम् ॥'
इत्यादिना परापञ्चाशिकायामन्यत्र च वीरपदस्य साधकपरत्वेनैव निर्वचनात् । अत
एव ब्रह्मादीनामुपासक श्रेष्ठत्वाद्वीरेन्द्रपदवाच्यत्वं सङ्गच्छते । एव च सति तिस्रो
भारत्याद्या योगिन्यस्त्रयः सकलाद्याः साधकास्त्रयो ब्रह्माद्या वीरेन्द्राः कूटत्रयेण
हृल्लेखाविनिर्मुक्तेन क्रमात् प्रतिपाद्याः । हृल्लेखानां तु शिवशक्तिसामरस्यात्मकं चतुर्थं
मिथुनमर्थः, 'ह्रीङ्कार उभयात्मकः' इति वचनात् । वाच्यभूतैर्योगिन्यादिभिर्जनितो युक्तो
मन्त्र इत्यर्थः ॥ ६४-६५ ॥
- सरोजिनी *
१. 'वामा + इच्छा' = ब्रह्मा + सरस्वती ॥ २. 'ज्येष्ठा + ज्ञान' = विष्णु +
पृथ्वी । ३. 'रौद्री + क्रिया' = शिव + पार्वती ॥ ये हैं दिव्य युगल ॥ (दिव्य
मिथुन) ॥
(१) वाम-ज्येष्ठा-रौद्री शक्तियाँ—ब्रह्मा, विष्णु एवं रुद्र की शक्तियाँ हैं—
'प्रकाशास्यांशभूता वामा-ज्येष्ठा-रौद्यः शक्तयस्तिस्रो ब्रह्मविष्णुरुद्राः पुंरूपाः ।'१
१. प्रकाशांशशक्तियाँ—(१) वामा (२) ज्येष्ठा (३) रौद्री
(ब्रह्मा) (विष्णु) (रुद्र)
२. विमर्शांशशक्तियाँ—(१) इच्छा (२) ज्ञान (३) क्रिया
उपरोक्त प्रस्तुत भाव अगले पृष्ठ २४३ पर चित्रित किया गया है ।
१. 'वामा'— बीजभावस्थितं विश्वं स्फुटीकर्तुं यदोन्मुखी ।
वामा विश्वस्य वमनादंकुशाकारतां गता ॥२
२. 'इच्छाशक्ति'—इच्छाशक्तिस्तदा सेयं पश्यन्ती वपुषा स्थिता ।
३. 'ज्ञानशक्ति'—ज्ञानशक्तिस्तथा ज्येष्ठा मध्यमा वागुदीरिता ॥
४. 'क्रियाशक्ति'— प्रत्यावृत्तिक्रमेणैव शृङ्गाटवपुरुज्ज्वला ।
क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥
उक्त चार शक्तियाँ एवं पीठ—
भासनाद्विश्वरूपस्य स्वरूपे बाह्यतोऽपि च ।
एताश्चतस्रः शक्तयस्तु का पूजा ओम् इति क्रमात् ॥
१. भास्कराचार्य—'प्रकाश' टीका २. योगिनीहृदय