सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 342, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 342

२४० वरिवस्यारहस्ये
ब्रह्मशिववाचिहकारस्यार्थः, 'तदिति परमात्मा' इत्यारभ्य 'हकाराक्षरं शिवरूपम्'
इत्याद्युक्त्वान्ते तत्पदव्यावृत्तिमादाय 'शक्तिं दर्शयति' इति श्रुतेः । सकारस्य सविता
अर्थः । ककारस्य वरेण्यमर्थः । तुर्यो हकारस्तदुपरि पदत्रयोपरि विद्यमाना या षडक्षरी
'भर्गो देवस्य धी' इति तदर्थबोधकः । तृतीयकूटे वर्णद्वितयं सकेति । ताभ्यां
धीत्यन्तगायत्र्या अर्थः प्रतिपाद्यः । उभयत्रापि लकारहृल्लेखाभ्यां पञ्चमहाभूताद्यात्मने-
त्यादिरर्थ इत्याह—कूटद्वितय इति । एवं चतुश्चरणाया गायत्र्यास्त्रिरावृत्ताया अर्थस्य
प्रतिपादकं कूटत्रितयमिति । भागवत इति । भगवत्या इदं भागवतम्, तत्र भगवतीपुराण
इत्यर्थः । तस्य हि पुराणस्यादिमः श्लोकस्त्रिचरणः पठ्यते । यथा—
'सर्वचैतन्यरूपां तामाद्यां विद्यां च धीमहि ।
बुद्धिं या नः प्रचोदयात् ॥'
इति । अत्र ह्राद्यायाः श्रीविद्याया एव ब्रह्मरूपत्व गायत्र्यादिप्रतिपाद्यत्वं
विद्याप्रतिपाद्यत्वादिकं च तदर्थव्याख्यानदर्शिनां स्पष्टम् । वस्तुतस्तु
'हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ।
गायत्र्या च समारम्भस्तद्वै भागवतं विदुः ॥'
इति लक्षणानुगत्येदमेव भागवतपदवाच्यम्, न पुनः 'जन्माद्यस्य यतो ऽन्वयात्'
इत्यादिकम् ॥ ६२-६३ ॥
* सरोजिनी *
'त्रिपदी..............गमकम्' ॥ तुलना कीजिए—

पञ्चदशीमन्त्रावयवगायत्रीमन्त्रावयव
'ह स क' 'त्रिपदी''तत् सवितुः वरेण्यं' ('त्रिवर्ण')
'ह स क' का वही अर्थ है जो कि 'तत् सवितुः वरेण्यं' का अर्थ है ।
पञ्चदशीमन्त्रावयवगायत्रीमन्त्रावयव
:---:---
'ह' (तुर्य) (चतुर्थवर्ण ह)'भर्गो देवस्य धी' ('षडक्षरी')
'ह स क ह ल' में से चतुर्थाक्षर (ह) का वही अर्थ है जो कि गायत्री मन्त्र
के 'भर्गो देवस्य धी' का अर्थ है ।
पञ्चदशीमन्त्रावयवगायत्रीमन्त्रावयव
:---:---
(तृ०कूट के) 'स-क' ('वर्णद्वितयं)'भर्गो देवस्य धी' 'त्रिपदी षडक्षरी'
सारांश—
१. 'ह स क' (पं०मन्त्र) के समानार्थी = 'तत् सवितुः वरेण्यं' (गा०मं)
२. 'ह' (पं०मन्त्र) के समानार्थी = 'भर्गो देवस्य धी' (गा०मन्त्र)
३. 'स क' (पं०मन्त्र) के समानार्थी = 'भर्गो देवस्य धी' (गा०मन्त्र)