वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)
Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary
भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा
DevanagariHindipublished530 पृष्ठ
पृष्ठ 331, कुल 530 में से
संदर्भ में पढ़ेंपृष्ठ 331
द्वितीयोंऽशः २२९
त्रिपुरोपनिषदि प्रतिपादितं गायत्र्यर्थमाह—
कामयते स ककारः कामो ब्रह्मैव तत्पदस्यार्थः ।
सवितुर्वरेण्यमिति वै सवितुः श्रेष्ठं द्वितीयवर्णार्थः ॥ ६० ॥
(गायत्री मन्त्र एवं पञ्चदशी मन्त्र के मन्त्राक्षरो के अर्थ में साम्य का प्रतिपादन)
जो कामना करता है वह कामेश्वर ही 'ककार' है । 'तत्' पद का अर्थ है—
ब्रह्म । द्वितीयाक्षर ('पञ्चदशी मन्त्र' का द्वितीयाक्षर) 'ए' 'सवितुर्वरेण्यम्' का अर्थ
देता है जो कि जन्मदात्री कामेश्वरी का वाचक है ॥ ६० ॥
- प्रकाश *
'ॐ तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति स्मृतेः, 'तदिति ब्रह्म
शाश्वतम्' इति श्रुतेश्च तत्पदार्थो ब्रह्म । तदेव च ककारार्थः, 'कं ब्रह्म' इति श्रुतेः ।
कामयत इत्यर्थो वा । कमेरीणादिको डः । 'कामयते कामी जायते स एव निरञ्जनो
ऽकामतवेनोज्जृम्भते... कामोऽभिधीयते, तत्परिभाषया कामः ककारं व्याप्नोति' इति
श्रुतेः । कामेश्वर इति तु पर्यवसितम् । सवितुरिति तृप्रत्ययान्तम् 'पुरा वत्सानामपाकर्ता:'
इत्यादि-कल्पसूत्रीयप्रयोगवत् । प्राणिप्रसवकारणम् । योनिरिति यावत् । तच्च नान्य-
साधारणमित्यतो वरेण्यमिति श्रेष्ठं भजनीयमित्यर्थः । तेन पदद्वयेनापि जगद्योनित्वं
लब्धम् । तेन च कामेश्वरीत्यर्थः । स एव चार्थ एकारस्य, तस्य त्रिकोणत्वात् । तथा च
श्रुतिः—'सवितुर्वरेण्यमिति षूञ् प्राणिप्रसवे, सविता प्राणिनः सूते' इत्युपक्रम्य
'त्रिकोणा शक्तिरेकारेण महाभगेन प्रसूते तस्मादेकार एव गृह्यते' इत्यादि ।
'यदेकादशमाधारं बीजं कोणत्रयात्मकम् ।
ब्रह्माण्डादि कटाहान्तं जगदद्यापि दृश्यते ॥'
इति वामकेश्वरतन्त्रे स्पष्टं दृश्यते' । सर्वेति । सर्वान्तर्यामित्वं देवपदस्यार्थः, 'देवो
मध्यवर्ती' इति श्रुतेः । सोर्डस् । धत्त इति धीः । दधत् । जगदाधार इत्यर्थः, 'धरो
धीत्येवं धार्यते' इति श्रुतेः । भर्ग इति स्पष्टार्थः । सर्वान्तर्यामी सर्वाधारः शिव इति
पर्यवसितम् । ईकारस्याप्येतावानर्थः । 'भर्गो देवस्य' इत्याद्युपक्रम्य तुरीयमक्षरं
सर्वान्तर्भूतम् । तुरीयाक्षरं पदानां मध्यवर्तित्वेन व्याख्यातम् 'तस्माद्भर्गो देवस्य
धीत्येवमीकारः' इति श्रुतेः । तुर्यार्थः, मन्त्र तु तृतीयस्यापि मातृकाक्रमे तुरीयत्वाद्दी-
कारस्यार्थ इत्यर्थः । मही पृथिवी महत्त्वात् काठिन्याच्च । पञ्चमहाभूतानामुपलक्षणमेतत् ।
'मृद्धट:' इतिवदेकविभक्तिमत्त्वरूपसामानाधिकरण्यस्य तदात्मना परिणतत्वमर्थः ।
अयमेव च पृथिवीबीजस्य लकारस्यार्थः, महीत्यस्य व्याख्यानमुपक्रम्य 'ससागरं
सपर्वतम्' इत्यादिना भूमण्डलं प्रतिपाद्य 'भूमण्डलमेवेक्तं लकारेण' इति श्रुतेः ।
तृतीयेति गायत्र्यास्तृतीयोऽङ्घ्रिः 'धियो यो नः प्रचोदयात्' इति । अस्मदादीनां धियो
ध्यानादिरहिते वस्तुनि निष्प्रपञ्चे विषये प्रेरयतीत्यर्थः । परतत्त्वविषयकज्ञानजनक इति
यावत् । तुरीयाङ्घ्रिः 'परोरजसे सावदोम्' इति । रजसः परं परे रजसे । सोः शे
इत्यादेशः । रजेऽतीतम् । निर्मलमिति निर्गुणमिति वार्थः, रजःशब्दस्य धूलीवाचक-
त्ववद् गुणत्रयोपलक्षकत्वसंभवात् । त्रिगुणातीतमिति यावत् । न पुनः पर इत्यत्र