सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 250, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 250

अत्रेयं शब्दसृष्टिप्रक्रिया—वटबीजान्तर्गतवटवृक्षीयसूक्ष्मरूपतुल्यशब्दसृष्टिसूक्ष्म-
रूपशालिनी पूर्वोक्तरूपा त्रिपुरसुन्दर्यैव तादृशसूक्ष्मरूपवत्त्वप्रवृत्तिनिमित्तकपरापदवाच्या।
सैव च माति तरति कायतीति च व्युत्पत्त्या मातृकेत्युच्यते । तस्यां च निर्विकाराया-
मप्यनादिसिद्धप्राण्यदृष्टवशात् स्वान्तः-संहतविश्वसिसृक्षोत्पद्यते । ततः स्रष्टव्यपदार्थना-
लोचयति, 'तदैक्षत बहुस्यां प्रजायेय' इति श्रुतेः । तादृशमीक्षणमेव प्रवृत्तिनिमित्तीकृत्य
तस्यां पश्यन्तीति पदं प्रवर्तते । सैव च पश्यन्त्याख्या मातृका करणसरणित
उत्तीर्णात्वादुत्तीर्णेत्युच्यते । तदवयवाश्च वामादयोऽष्टौ शक्तयोऽन्यत्र प्रपञ्चिताः । अतः सैव
व्यष्टिसमष्टिवेषेण नवविधा । ततो नव नादा अविकृतशून्यादयो जाताः । तत्समष्टिश्च
नादध्वन्यादिपदवाच्या नातिसूक्ष्मा परावन्नातिस्थूला वैखरीवदतो मध्यमाख्या मातृका
मध्यमावयवरूपमविकृत-शून्यस्पर्शनादध्वनिबिन्दुशक्तिबीजाक्षराख्यं नादनवकं मूला-
धारादिषट्के नादे नादान्ते ब्रह्मरन्ध्रे च स्थितम् । नवभिर्नादैरकचटतपयशळाख्यवर्ग-
नवकवती वैखर्याख्या मातृका जाता, वै निश्चयेन स्पष्टतरत्वात् खं कर्णविवरवर्तिन-
भोरूपश्रोत्रेन्द्रियं राति गच्छति, तज्जन्यज्ञानविषयो भवतीति व्युत्पत्तेरित्याद्यन्यतो
विस्तरः । एवं च ककारादौ कत्वादिधर्मणां षड्जत्वादिध्वनिधर्माणां चानुभूयमान-
त्वात् परिणामे परिणामिनो ऽनुस्यूतताया मृद्धटे दर्शनाच्च वर्णेषु नादोऽनुस्यूतः । तन्तु-
विशेषजन्यः पटविशेषो वर्णकपद्वाच्यः । तत्र कप्रत्यय-परित्यागेन प्रयोगस्त्वक्षर-
वाचकवर्णपदेन श्लेषार्थः । गुण इव वर्णकाख्यपटविशेषोपादानभूततन्तुविशेषवन्माला-
मण्याधारसूत्रवच्चेत्यर्थः । वर्णमध्यगत इत्यस्य द्वयोर्वर्णयोर्मध्यभागे वर्णशरीरान्तर्भागे च
स्थित इत्यर्थः । अयं भावः—द्वयोर्वर्णयोर्मध्यभागे मणिद्वयमध्यभागस्थशुद्धसूत्रवच्छुद्ध-
नादस्य भानम्, वर्ण-शरीरान्तर्भागे तु पटाभेदेन संवलिततन्तुवद्धटान्तर्मृद्वच्च तत्तद्वर्णा-
भेदेनैव नादस्य भानम्, न पुनस्तत्र मण्यन्तर्गतसूत्रदृष्टान्तः, तस्य मणितोऽत्यन्तभिन्न-
त्वादिति ॥ २१- ॥
मध्येफालं फालस्य मध्ये । 'पारे मध्ये षष्ठ्या वा' इति समासः । कान्त्या,
आकृत्या चान्वर्थः; अर्धचन्द्रवत्कान्तिराकारश्चेत्यर्थः । अण्डस्थानीयौ द्वौ बिन्दू सिरा-
स्थानीया मध्यरेखा चेति त्रयं संहृत्य नादस्याकारः, 'बिन्दुद्वयान्तरे दण्डः शेवरूपो
मणिप्रभः' इति चक्रसङ्केतोक्तेः । शेवो मुष्कद्वयमध्यवर्तिनी नाडी, मणिः पद्मराग इति तु
सांप्रदायिकी व्याख्या । दण्डस्य शेवरूपत्वविशेषणं घनतादार्ढ्योर्निरासाय, केशतुल्य-
पिष्टविकारेषु पायसोपयुक्तेषु शेवपदप्रयोगादित्यपि व्याख्या नातीव विरुद्धा । ऊर्ध्वगं
दक्षिणारं लाङ्गलम्, वामभागे बिन्दुरेक इति नादान्ताकारः । विसर्जनीयवदूर्ध्वाधो
बिन्दुद्वयमिति भ्रमनिरासायाह—तिर्यगिति । वामाद्वामभागस्थबिन्दुमारभ्योर्ध्वं गच्छन्ती
निःसरन्ती या सिरा रेखा तदाकारेत्यर्थः । 'शक्तिर्वामस्थबिन्दूत्थसिराकारा' इति चक्र-
सङ्केते । आर्षत्वात् समस्तस्यापि बिन्दुपदस्य पूर्वपदेन सह बहुव्रीह्यवयवत्वेन, उत्तरपदेन
सह पञ्चमीतत्पुरुषावयवत्वेनापि काकाक्ष्यन्यायेनान्वय इति सांप्रदायिकैर्व्याख्यानात् ।
उद्यत्पदस्य सामान्यवाचकस्यापि बिन्दुद्वयादिति विशेषे लक्षणायां वामस्थादिबिन्दोरुद्यत्याः
सिराया आकारो यस्या इत्येव विगृह्य बिन्दोर्वामस्थत्वविशेषणबलादेव दक्षिणदिग्भागे
निःसिराक एको बिन्दुरस्तीति गम्यत इति व्याख्यायां वा न कोऽपि क्लेशः । बिन्दु-
संस्पृष्टाग्रकत्रिकोणाकारा व्यापिका । 'बिन्दुद्वयान्तरालस्थऋजुरेखामयी पुनः । समना'