सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 226, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 226

१२४ वरिवस्यारहस्ये

  • प्रकाश *
    मात्रा लघ्वक्षरस्य कालः । तद्द्विगुणो गुर्वक्षरस्य । अत एव कामकला कमला
    त्रिकोणा योनिश्च द्विमात्रा । हृल्लेखायां द्वयोर्व्यंजनयोरेका मात्रा, कामकलाया द्वे मात्रे
    इति तिस्रः । अन्येषामकारसहितानां ककारादि१दशवर्णानाम् । बिन्दोरपि व्यंजनत्वादर्धा
    मात्रा,
    'एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते ।
    त्रिमात्रस्तु प्लुतो ज्ञेयो व्यंजनं त्वर्धमात्रकम् ॥'
    इति वचनात् । परे परे, अर्धचन्द्ररोधिन्यादयः, पूर्वपूर्वार्धाः, अर्धचन्द्रस्यार्धकालो
    रोधिन्याः, रोधिन्यर्धकालो नादस्येत्यादिक्रमेण कालवन्तः । अयं भावः—कालपरमाणु
    -र्लव इत्युच्यते,
    'नलिनीपत्रसंहत्याः सूक्ष्मसूच्यभिवेदने ।
    दले दले तु यः कालः स कालो लवसंज्ञितः ।
    [