सामग्री पर जाएँ
सर्वकोश
वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

वरिवस्यारहस्य (भास्करराय मखी - सरोजिनी हिन्दी व्याख्या, कामकला व श्रीविद्या मन्त्र-दर्शन)

Varivasyarahasya of Bhaskararaya with Sarojini Hindi Commentary

भास्करराय मखी (टीकाकार: डॉ. श्यामकान्त द्विवेदी आनन्द) द्वारा

DevanagariHindipublished530 पृष्ठ

पृष्ठ 104, कुल 530 में से

संदर्भ में पढ़ें
पृष्ठ 104

२ वरिवस्यारहस्ये

  • प्रकाश *
    प्रह्लादाख्यो दैत्यः, तदभीष्टानां दानं यस्मात्; पक्षे प्रकृष्टो ह्लादो ब्रह्मानन्दः, तस्य,
    अभीष्टानां धर्मार्थकामानां च दानं यस्मात्; तस्मिन् । विबुधानां देवानां पण्डितानां च
    समुदायेन समुदायेन स्तूयमानमपदानं पूर्वचरित्रं यस्य तस्मिन् । ‘अपदानं कर्म वृत्तम्’
    इत्यमरः । हिरण्याख्यो योग्यतया हिरण्यकशिपुः, नामैकदेशे नामग्रहणात्; स एव
    द्विरदः, सिंहवध्यत्वात्; तम् । कीदृशं तम् ? अतिशयितमद एवाऽज्ञानपरिणामत्वाद्
    ध्वान्तम्, तत्तन्त्रं तदधीनम्, मदपरवशमिति यावत्; पक्षे हिरण्यं धनोपलक्षणम्, द्विरदाः
    सेनाङ्गोपलक्षणम्, मतिरसचच्छास्त्रज्ञानम्, तत्सम्बन्धी मदो येषां ॰ तेषां ध्वान्तानां
    ध्वकारोऽन्ते येषां नाम्नि तेषां माध्वानां तन्त्रं शास्त्रं निहन्तुं शेषक्षोणीभृतः शेषाचल-
    स्यान्तः प्रविलसितं शोभमानं पदं स्थानं यस्याहोबलाख्यक्षेत्रस्य, तस्य गर्भान् मध्यात्,
    पक्षे, अशेषाणां समस्तानां क्षोणीभृतां राज्ञां मध्ये प्रविलसिते पदे चरणौ यस्य
    अहोबलाख्यस्य पुरुषधौरेयस्य, तस्य क्षेत्रं पत्नी, तस्या गर्भात्, प्रादुर्भूते; धीरे
    धैर्यशालिनि, पक्षे धियं रातीति धीरः पण्डितस्तस्मिन्; सतां शास्त्राणां योनिः कारणम्,
    ‘यस्य निःश्वसितं वेदाः’, ‘छन्दांसि जज्ञिरे तस्मात्’ इत्यादि श्रवणात्; सच्छास्त्राण्येव
    योनिर्ज्ञापकहेतुर्यस्येति वा, ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ इति श्रवणात्, शास्त्रयो-
    नित्वाधिकरणे द्वेधापि व्याख्यानात्; पक्षे सच्छास्त्राणां योनिः कर्ता, ग्रन्थकर्तेति यावत्;
    तस्मिन् भुवनगुरौ नृसिंहे नरकेसरिणि, नृसिंहनामके च मम भक्तिरस्त्विति प्रार्थना ।
    अत्रोपमेयोपमाया उपमाया अभेदस्य वा ध्वनिः । श्लेषोऽलङ्कारः । सोऽपि च
    प्रकृतोभयविषयकः सभङ्गोऽभङ्गश्च । स्रग्धरा वृत्तम् ॥ १ ॥
    आ प्राचः कामरूपाद् द्रुहिणसुतनदप्लावितादा प्रतीचो,
    गान्धारात्१ सिन्धुसान्द्राद्रघुवरचरितादा च सेतोरवाचः ।
    आ केदारादुदीचस्तुहिनगहनतः सन्ति विद्वत्समाजा,
    ये ये तानेष यत्नः सुखयतु समजान् कश्चमत्कर्तुमीष्टे ॥ २ ॥
    (ग्रन्थकार का विद्योपासक विद्वत्समाज के प्रति आत्म निवेदन)
    प्राची दिशा में ब्रह्मपुत्र (नामक) नद से आप्लावित कामरूप तक, पश्चिम
    दिशा में सिन्धु नदी से आप्लावित गान्धार देश तक, दक्षिण दिशा में भगवान्
    राघवेन्द्र के द्वारा (यात्रा के समय) श्रमणीकृत सेतुबंध रामेश्वरम् धाम तक एवं उत्तर
    दिशा में हिमाच्छादित केदारनाथ धाम तक (फैले हुए) विद्वानों (विद्योपासकों) के
    जो-जो समाज विद्यमान हैं उन्हें मेरा यह ('वरिवस्यारहस्यम्' नामक ग्रन्थ-प्रणयन
    रूप) अध्यवसाय आह्लादित करे । भला पशु-गण को कौन व्यक्ति चमत्कृत करने
    की इच्छा करेगा? ॥ २ ॥
  • प्रकाश *
    कामरूपगान्धारौ देशौ । सेतुकेदारौ क्षेत्रे । द्रुहिणसुतब्रह्मपुत्र नदविशेषौ । विदुषां
    विद्योपासकानां समाजाः, ‘न शिल्पादिज्ञानयुक्ते विद्वच्छब्दः प्रयुज्यते’ इत्यादिना
    १. सिन्धुसार्द्राद्रघु०