सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 59, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 59

४० उत्तररामचरितं [२-९]
इत्युपश्रुत्यैवाहृतकृपाणपाणिः पुष्पकं विमानमारुह्य सर्वा दिशो विदिशश्च
शूद्रतापसान्वेषणाय जगत्पतिः सञ्चरितुमारब्धवान् ।
वासन्ती-शम्बूको नाम धूमपः शूद्रोऽस्मिन्नेव जनस्थाने तपश्चरति ।
तदपि नाम रामभद्रः पुनरपीदं वनमलङ्कुर्यात् ।
आत्रेयी-भद्रे आगम्यतेऽधुना ।
वासन्ती-आर्ये आत्रेयि एवमस्तु । कठोरीभूतस्तु दिवसः ।
•कण्डूलद्विपगण्डपिण्डकषणाकम्पेन सम्पातिभि-
घर्मस्रंसितबन्धनैः स्वकुसुमैरर्चन्ति गोदावरीम् ।
छायापस्करमाणविष्किरमुखव्याकृष्टकीटत्वचः
कूजत्क्लान्तकपोतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥ ९ ॥
( इति परिक्रम्य निष्क्रान्ते ।)
इति शुद्धविष्कम्भकः ।
हते पुनर्जीवनेन द्विजोऽपि जीविष्यति । अन्यथा न जीविष्यतीति भावस्सूच्यते
॥८॥ दिशः इन्द्रादिदिश । विदिशः आग्न्यादिदिशः । 'दिशोर्मध्ये विदिक स्त्रियाम्'
इत्यमर । शूद्रश्चासौ तापसश्च । तत् तत्सान् । अपि नाम इति सम्भा-
वनाप्रसिद्धौ । रमयतीति रामः । रम क्रीडायाम् । रामश्चासौ भद्र मङ्गलकरः
रामभद्रः । वनमलमिति ध्वनि । गम्यत इत्यर्थे आगम्यते इति व्यव-
हार सार्वलौकिक । धनुर्भरतिद्धश्च । कठोरः दुस्सह सूर्यरश्मिरिति यावत् ।
तदेवोपपादयति तथाहीति ॥ कण्डूलद्विपगण्डेति ॥ ९ ॥ कण्डूलाः
कण्ड्युक्ताश्च ते द्विपाः गजा । तेषा गण्डाः कपोलाः । त एव पिण्डाः
गोलाः तेषा कषणं घर्षणम् । तस्माद्धेतो । आकम्पेन समन्तात्कम्पनेन ।
सम्पातिभिः पतनवद्भि । घर्मेण निदाघेन । स्रंसितं सजातस्रंसनं च्युतं
येषा तानि 'स्रंसस्तु गलनं च्युति' इति 'वृतं प्रसवबन्धनम्' इति च हारा-
वल्यमरौ ।_छायासु अवस्करमाणाः मेहन्तश्च ते विष्किराः
पक्षिणः । तैर्मुखेनेन श्रोष्ठ्या । व्याकृष्टाः विशेषेण आकृष्टा । कीटानां त्वचः
चर्माणि येषु ते । अपस्किरेति पाठे भक्षणाय भूमि विदारयन्तश्च ते विष्किरा
इति योज्यम् । विदारयन्त 'विकिरैवे' इति महाराष्ट्राः । कूले तीरे । कु-
लाययुक्ता वृक्षा । 'कुलायो नीडमस्त्रियाम्' इत्यमर । गण्डपिण्डेति ध्वनिः ।
' गलद्दानगण्डं' इति भगवत्पादाः । 'चूलनीत इव कुङ्कुमपिण्ड ' इति कुङ्कु-
मकविः । गण्डमण्डलकषेति च पाठ । क्षपणकर्म इति द्विरूप । छायेयत्र शाखे-
त्यपि च पाठ ॥ ९ ॥ शुद्धविष्कम्भ इति ॥ आत्रेयीवनदेवतयो रुदात्तपात्रत्वात्
१ 'सञ्चारं समारब्धवान्' न. २ 'कठोरश्च' न. ३ 'कषणोत्कम्पेन' क-घ-व.