सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 58, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 58

वासन्ती-अथ स राजा किमाचारः सम्प्रति ।
आत्रेयी-तेन राज्ञा क्रतुरश्वमेधः प्रक्रान्तः ।
वासन्ती-हा धिक् परिणीतमपि ।
आत्रेयी-शान्तं पापम् । नहि नहि ।
वासन्ती-का तर्हि यज्ञे सहधर्मचारिणी ।
आत्रेयी-हिरण्मयी सीताप्रतिकृतिः ।
वासन्ती-हन्त भोः ।
वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को नु विज्ञातुमर्हति ॥ ७ ॥
आत्रेयी-विसृष्टश्च वामदेवाभिमन्त्रितो मेध्योश्वः । उपकल्पिताश्च
तस्य यथाशास्त्रं रक्षितारः । तेषामधिष्ठाता च लक्ष्मणात्मजश्चन्द्रकेतुर्योऽत
दिव्यास्त्रसम्प्रदायश्चतुरङ्गसाधनान्वितोऽनुप्रहितः ।
वासन्ती-(सहर्षकौतुकास्रम् ।) कुमारलक्ष्मणस्यापि पुत्रः । हन्त
मातर्जीवामि ।
आत्रेयी-अत्रान्तरे ब्राह्मणेन मृतं पुत्रमुत्क्षिप्य राजद्वारे सोरस्ताडम्-
अब्रह्मण्यमुद्घोषितम् । ततो न राजापचारमन्तरेण प्रजास्वकालमृत्युः संचरती-
त्यात्मदोषं निरूपयति करुणामये रामभद्रे सहसैवाशरीरिणी वागुदचरत्-
शम्बूको नाम वृषलः पृथिव्यां तप्यते तपः ।
शीर्षच्छेद्यः स ते राम तं हत्वा जीवय द्विजम् ॥ ८ ॥
भो इति मनः प्रति सम्बोधनम् ॥ वज्रादपि कठोराणीति ॥ ७ ॥ लोको-
त्तराणां भुवनश्रेष्ठानाम् । 'सर्वे कृत्यं साधु सर्वोत्तरत्वम्' इति भारविः ।
सीतापरित्यागेन रामचेतसः कठोरत्वं अपुनःपरिणयेन मृदुत्वं चेति भावः ॥७॥
मेध्यः पवित्रः । प्रयुक्ताः प्रयोजिताः । शास्त्रं श्रौतपद्धतिः । अधिष्ठाता
प्रमुखः । प्रहितः प्रेषितः । मातर्जीवामीति द्राविडीस्त्रीस्वभावोक्तिः । एव
वदता कविना निज द्राविडत्वं प्रकटितमित्युक्तम् । उत्क्षिप्य उद्घृत्य । उरसा
दृढेन सहितं सोरस्ताडं यथा तथा । 'तडस्ताडनम्' इति द्विरूपः । 'अब्र-
ह्मण्यमवध्योक्तिः' । आत्मनः रामस्यैव । ( वा ) गुदेति ध्वनिः । उद्ग-
च्छेदिति च पाठः ॥ शम्बूको नाम वृषल इति ॥ ८ ॥ वृषलः शूद्रः ।
शीर्षच्छेद्यः वध्यः । एनम् शम्बूदम् । द्विजं जीवय इति कथनमहिम्ना शम्बूके
१ 'स रामभद्रः' न २ 'शान्तम्' न, 'शान्तं शान्तं' घ-च ३ 'दत्त'
इति न ४ 'पुत्रमारोप्य' घ-च ५ 'प्रवादान्' न, 'प्रवादान्' घ-च
६ 'चरति' ग घ