सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 197, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 197

१८० तर्कसंग्रहः [ अवशिष्टपरिच्छेदः
अथ कर्मादिलक्षणप्रकरणम्—
कर्मणः किं लक्षणम् ?—
चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदे-
शसंयोगहेतुरपक्षेपणम् । शरीरस्य सन्निकृष्टसंयोगहेतुराकुञ्चनम् ।
विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् ।
सामान्यस्य किं लक्षणम् ?—
नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । परं
सत्ता, अपरं द्रव्यत्वादि ।
विशेषाणां किं लक्षणम् ?—
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ।
पदकृत्यम्
चलनेति । संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म । १हस्त-
पुस्तकसंयोगवारणाय सत्यन्तम् । घटादिवारणाय विशेष्यदलम् । ऊर्ध्वेति ।
अपक्षेपणवारणाय ऊर्ध्वेति । कालादिवारणाय असाधारणेत्यपि बोध्यम् ।
अधोदेशेति । उत्क्षेपणवारणाय अधोदेशेति । कालादिवारणाय असाधारणे-
त्यपि देयम् । शरीरेति । प्रसारणादिवारणाय सन्निकृष्टेति । कालादि-
वारणाय असाधारणपदमप्यावश्यकम् ।
नित्यमिति । संयोगादिवारणाय नित्यमिति । कालादिपरिमाणवारणाय
अनेकेति । अनेकानुगतत्वम् च समवायेन बोध्यम्, तेन नात्यन्ताभावेऽति-
व्याप्तिः ।
नित्यद्रव्यवृत्तय इति । घटत्वादिवारणाय नित्यद्रव्यवृत्तय इति ।
२आत्मत्वमनस्त्ववारणाय आत्मत्वमनस्त्वभिन्ना इत्यपि बोध्यम् ।
हिन्दी
अन्यतरत्वमें नहीं जायगा । कारण, संस्कारत्वसे शून्य रूपमें रहनेवाला अन्यतरत्वधर्म
अतिरिक्तवृत्ति होनेसे व्याप्य नही बन सकेगा तथा इसे लेकर अतिव्याप्ति देना
असंगत हो जायगा ।
१. हस्तपुस्तकसंयोग भी शरीरपुस्तकसंयोगके प्रति असमवायिकारण है । इसमें
कर्मलक्षण न जाय, इसके लिये 'संयोगभिन्नत्वे सति' विशेषण दिया ।
२. आत्मत्व-मनस्त्व भी नित्यद्रव्यवृत्ति है, अतः इनमें विशेषका लक्षण न जाय,
इसलिये "आत्मत्व-मनस्त्वभिन्नाः" यह भी विशेषके लक्षणमें जोड़ देना चाहिये ।