तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 170, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १५३
अयथार्थानुभवस्य लक्षणं किम् ? —
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । ( यथा-शुक्ताविदं
रजतमिति ज्ञानम् ) सैवाप्रमेत्युच्यते ।
यथार्थानुभवभेदाः के ? —
यथार्थानुभवश्चतुर्विधः—प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।
तत्करणं कतिविधम् ? —
तत्करणमपि चतुर्विधं—प्रत्यक्षानुमानोपमानशब्दभेदात् ।
पदकृत्यम्
तदभावेति । १तदभाववद्विशेष्यकतत्प्रकारकोऽनुभवोऽयथार्थानुभव
इत्यर्थः । यथा-शुक्तौ 'इदं रजतम्' इति ज्ञानम् । स्मृतिवारणायानुभव इति ।
यथार्थानुभवेऽतिव्याप्तिनिरसनाय तदभाववतीति । निर्विकल्पकवारणाय
तत्प्रकारक इति ।
यथार्थेति । यथार्थानुभवः प्रत्यक्षमेवेति चार्वाकाः । अनुमितिरपीति
काणादबौद्धौ । उपमितिरपीति नैयायिकैकदेशिनः । शाब्दमपीति नैया-
यिकाः । अर्थापत्तिरपीति प्राभाकराः । आनुपलब्धिकोऽपीति भाट्टवेदान्तिनौ ।
साम्भविकैतिह्यकावपीति पौराणिकाः । चेष्टिकोऽपीति तान्त्रिकाः । एतेषां
मतेऽस्वरसं सम्भाव्य तस्य चातुर्विध्यं दर्शितम् ।
तदिति । यथार्थानुभवात्मकप्रमायाः करणमित्यर्थः ।
असाधारणमिति । कालादिवारणायासाधारणमिति । व्यापारेऽति-
व्याप्तिवारणाय २व्यापारवदित्यपि देयम् । व्यापारश्च—द्रव्यान्यत्वे सति
हिन्दी
१. 'तदभाववति' इस पदमें भी सप्तमीका अर्थ पूर्ववत् विशेष्यत्व होनेसे
तदभाववद्विशेष्यक तत्प्रकारक अनुभव अयथार्थानुभव हुआ । जैसे शुक्तिमें रजतका
ज्ञान अयथार्थ अनुभव हुआ । क्योंकि यहां विशेष्यभूत शुक्तिके रजतत्वाभावसे
युक्त होनेसे उक्तज्ञान रजतत्वाभाववद्विशेष्यक और रजतत्वप्रकारक हुआ, अतः
अयथार्थ है ।
२. व्यापारवत्पद देनेसे "व्यापारवदसाधारणं कारणं करणम्" यह करणका
लक्षण निष्पन्न हुआ । व्यापारका लक्षण है—जो द्रव्यसे अन्य हो तथा कारणसे
उत्पन्न होते हुए कारणसे उत्पन्न होनेवाले घटादिका जनक हो, वह व्यापार कहाता
है । जैसे—चक्रभ्रमि क्रियारूप होनेसे द्रव्यसे भिन्न है तथा दण्डसे उत्पन्न होती हुई
दण्डजन्य घटकी जनिका भी है, अतः चक्रभ्रमिको व्यापार कहते हैं ।